मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 42, कुल 377 में से
संदर्भ में पढ़ेंमाधवः—श्रूयताम् । अथ तस्याः करेणुकाधिरोहणसमय
एव ततः सखीकदम्बकादन्यतमा वारयोषिद्विलम्ब्य कुसुमापच-
यक्रमेण नेदीयसी भूत्वा प्रणम्य कुसुमापीडव्याजेन मामेवमुक्त-
वती—‘महाभाग, सुश्लिष्टगुणतया रमणीय एष संनिवेशः । कुतूह-
लिनी च नो भर्तृदारिकास्मिन्वर्तते । तस्यामभिनवो विचित्रः कु-
सुमेषुव्यापारः । तद्भवतु कृतार्थता वैदग्ध्यस्य । फलतु निर्माणरम-
णीयता । समासादयतु सरस एष भर्तृदारिकायाः कण्ठावलम्बनम-
हार्हताम्’ इति ।
पर्य्यनुरक्तेति तदुक्तेन तच्चेष्टाविशेषेण ज्ञातम् । कस्मिन्कुले जाता संबन्धयोग्या वा
किंनामधेया वेत्येतदितः परं ज्ञातव्यम् । तत्साधनाय त्वया यत्किंचिद्विदितमिति
प्रश्नः ॥ माधवः—श्रूयतामित्यादि । विलम्ब्य कुसुमापचयव्याजेन वि-
लम्बं कृत्वा । कुसुमापचयक्रमेण तान्युपचिनोमि । तानि तानीत्येवंरूपेण नेदीयसी
भूयः संनिहिता भूत्वा कुसुमापीडव्याजेन प्रणम्य शिरसि स्रग्बन्धनव्याजेन लला-
तटघटितकरकमलसंपुटा नमस्कृत्य । नमस्कारेण स्वभर्तृदारिकायास्त्वमेव भर्तेति
तया सूचितम् । मामेवं वक्ष्यमाणमुक्तवती । सा तावत्पूर्वमेवावलोकितादिमुखा-
न्माधवस्य सर्वकलाकौशलं ज्ञातवती सती निपुणं वक्तुमुपक्रमते—महाभागे-
त्यादि । महान्भागो भागधेयं यस्य । ‘रूपनामभागेभ्यो धेयः’ इति स्वार्थे धेयप्र-
त्ययविधानाद्भाग एव भागधेयम् । आकृतिविशेषेणैवोपलक्ष्यमाणमहाभाग्याति-
शयेत्यर्थः । एष संनिवेशः कुसुमसंनिवेशनप्रकारः स्रग्विरचनावैदग्ध्यं सुश्लिष्टगुण-
तया सुसंघटितग्रन्थिमतसूत्रत्वेन रमणीयो मनोहरः । कुतूहलिनी चास्मिन्स्निग्धा-
तिशये कुसुमदामविरचनाविशेषे चास्माकं भर्तृदारिका । भूरिवसोरमात्यस्य राज-
तुल्यत्वात्तत्सुतापि भर्तृदारिकेत्युच्यते बहुमानसूचनाय । तस्यामधिकरणभूतायाम-
भिनवोऽन्यत्रादृष्टपूर्वो विचित्रश्चमत्कारकारी कुसुमेषुविषये व्यापारो माल