मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 40, कुल 377 में से
संदर्भ में पढ़ें३४ मालतीमाधवे
अपि च ।
परिच्छेदव्यक्तिर्न भवति पुरःस्थेऽपि विषये
भवत्यभ्यस्तेऽपि स्मरणमतथाभावविरसम् ।
न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा
मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च ॥ ३४ ॥
कलहंसः—१दिढं खु एसो कए वि अज्ज अवहरिदो । अवि
णाम मालदी एव्व सा हवे ।
१. दृढं खल्वेष कयाप्यद्यापहृतः । अपि नाम मालत्येव सा भवेत् ।
'उन्मादो विरहोत्थो य अतस्मिंस्तद्ग्रहाग्रहः । सर्वावस्थासु सर्वत्र सर्वथा सर्वदा
मनः ॥ तद्गतं तत्कथाह्लादि प्रद्वेष्टीष्टानपीतरान् । दीर्घं मुहुर्निश्वसिति तिष्ठत्यनि-
मिषेक्षणः ॥ विहारकाले रुदति क्रन्दति ध्यायति क्षणम् । ग्लायति स्पन्दते ख-
स्मिन्हसति स्तौति मुह्यति ॥ इत्थमुन्मादजा भावाः कथिता नाट्यकोविदैः ॥' इति ।
एतैरेव विशेषणैः कोऽपीति व्याख्यातम् ॥३३॥ इदानीमस्य विकारस्य कार्याण्यनु-
भवाक्षापरिच्छेद्या इत्याह—परिच्छेदव्यक्तिरिति । पुरःस्थेपीन्द्रियसन्निकृष्टे
ग्रहणयोग्ये विषये परिच्छेदेन घटोऽयं पटोऽयमित्यवधारणात्मकेन सम्यगनुभवे-
न कृता व्यक्तिरभिव्यक्तिस्तत्र स्फुरणं तज्जन्यं प्राकट्यं वा न भवति । अनेन मनसो
विकारोपहतत्वाच्चक्षुराद्यनवस्थानेन बाह्यार्थप्रमायामव्यापार उक्तः । स्मरणेऽपि न
सम्यग्व्याप्रियत इत्याह—भवतीति । अनभ्यस्ते सकृदापाततो गृहीते कदाचिदनु-
भवो न संस्कारमादध्यात् । आहितो वा संस्कारो दार्ढ्याभावात्कदाचिन् न स्मृतिं
जनयेदपि । पुनर्गृहीते वस्तुनि दृढतरे संस्काराधानाद्यथानुभवं स्मृत्या भाव्यम् ।
इह पुनरभ्यस्तेऽपि विषये न यथानुभवं स्मृतिरुत्पद्यते विद्यमानेष्वपि सदृशवस्तु-
दर्शनादिषु संस्कारोद्बोधकारणेषु । प्रत्युत दोषवशादतथाभावेनातथात्वेन विरसं
विपर्यस्तं स्मरणं भवति । क्वचिदपि पूर्वानुभूते स्मरणं नोत्पद्यते । अपि तु स्मृति-
विपर्यय एवेत्यर्थः । हिमसरसि तुषारवाप्यां वा चन्द्रमसि वामृतमयशरीरे संता-
पच्छेदो न भवति । केनापि शिशिरद्रव्येणानिर्वापणात्संतापो न निवर्तत इत्यर्थः ।
तेन त्वया न कस्मिंश्चिदपि शैत्योपचारे प्रयतितव्यमिति भावः । तथापि मनो
निष्ठया निर्वहणेन शून्यम् । कंचिदर्थमनुसंधातुमुपक्रम्य मध्य एव तस्यात्यन्तविक्षे-
पणात्प्रक्रान्तनिर्वहणासमर्थमित्यर्थः । तत्र हेतुमाह—भ्रमति चेति । क्वचिदप्यर्थे
न क्षणं तिष्ठतीत्यर्थः । 'जडयति च तापं च तनुते' इत्युक्तयोरेव जाड्यसंतापयोरे-
तद्विवचनमिति मन्तव्यम् । विरोधाभास एवालंकारः अतिशयोक्तिर्वा ॥ ३४ ॥
कलहंसः—दृढं खल्वेष कयाप्यथापहृतः । अपि नाम मालत्येव सा भवेत् ।
दृढं यथा वनितान्तरवार्तामपि न सहते तथा । कयाप्यद्य यात्रासमये नयनपथप-
तितया । यात्रा हि यूनोः प्रथमावलोकने प्राथमिकोपायः । यथा—'यात्रा पुर-