मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 335, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ७ ] मालतीमाधवटीका । ८७
पृ० पं०
१६४ २ ॰जामादा । तदो सो खु अधिअवेलक्ख॰ । ३-४
॰क्खरो सरोसणिब्भरदुकिलदो मदप्पप्फुरन्तणअणो
ण मे संपदं तुए कुमारबन्धईए पओ॰ ।
अतिभूमिमतिदूरम् । तत्खल्विति । माधवानुरक्ता मालतीत्यस्यानुशय इत्या-
शयः । विजृम्भते प्रकाशते । अपक्षे मालती माधवपरेत्यस्मत्पक्षे । अभिनिवेशो
रोषः । निरवशेषमिति क्रियाविशेषणम् । दोष इत्यस्य। दौर्भाग्यं त्यागो
वा नित्यशङ्काकुलतया स्यादिति भावः । निष्कम्पेति । सततपरपुरुषालो-
कनेन लज्जाहीनतया दारुणत्वम् । अत एवेयं कुलटा न वेति परेषां संदेह इति
भावः । लवङ्गिका । अत्रापेहि दूरं गच्छ । मदयन्तिका । अत्र न यूय-
मिति त्वदस्फुटवादे वा मेऽवसाद इत्यर्थः । न खलु न जानीमः । अपितु
जानीम एव । च तथा त्वमपह्नवं किं करोषीत्यर्थः । कठोरः परिणतो जातपाण्डिमे-
त्यर्थः । यद्वा अकठोरा बाला केतकीत्यर्थः । तादृशी सातिपाण्डुरेव भवति ।
न विभावितं न ज्ञातम् । अपितु सर्वैरेव ज्ञातमित्यर्थः । तत्किमपह्नवं करो-
षीति भावः । विभ्रमो विलासः । स च स्त्रियां यथा—'यानस्थानासनादीनां
नेत्रवक्रादिकर्मणाम् । उत्पद्यते विशेषो यः स विलास इति स्मृतः ॥'
पुरुषे यथा—'मन्दसंचारिणी दृष्टिर्गतिश्च वृषभायिता । स्मितपूर्वस्तथालापो
विलासः कथ्यते यथा ॥' किं न त्वया निरूपिता येनापह्नव इत्यर्थः । आवेगो-
ऽप्रसिद्धदुःखम् । अङ्गारितं सुतप्तम् । उद्वर्तमानमुत्पतत् । आवेगोऽयमिष्टाना-
प्तिजः । यदाह—'आवेगश्च भवेत्पुंसामिष्टानिष्टाप्तिसंभवात्' । लवङ्गिका ।
किमिदानीमपरम् । त्वया स्मृतमिति शेषः । मदयन्तिका । अत्र चेतना-
प्राप्तिरूपमेव प्रियम् । पारितोषिकं यद्बालव्रणितेत्यादिश्लोके दर्शितम् । नियुक्तं
दत्तम् । तच्चित्तानुरागं विना नोपपन्नमिति भावः । अर्थान्तरोक्तिप्रसङ्गेन प्रकृ-
तापह्नवार्थमाह—आं सखि इति । आमिति पूर्वस्मरणार्थः । विस्मृतमिति ।
ज्ञात्वापि तत्कथाकथनायायं प्रश्न इति भावः । मदयन्तिका । व्याजेन
यम इत्यर्थः । अवलग्नसंनिहितेति पाठेऽवलग्नं कण्ठः । संभावितः ख्यातः ।
कर्मधारयोऽत्र विकटं विशालम् । मांसलं स्थूलम् । उत्तानमुच्छ्रितम् ।
जरठं कठिनं जर्जरितं विध्वंसितं यदोण्ड्रपुष्पमुकुटं तदिव हरति । 'कर्तर्युपमाने'
इति णिनिः । हरणमिह समीकरणम् । रक्ताक्तदेहतया साम्यम् । क्षिप्ता-
भ्रम् । लवङ्गिका । अत्र हुं वितर्के । 'हुं वितर्के विस्मये' इत्यमरः । मद-
यन्तिका । अत्राल्हादातिशयात्पुनःपुनः प्रश्नः । प्रियतममधुपानेऽपि न तृप्तातो
श्रुत्वैवाहेति भावः । लवङ्गिका । ननुशब्द आशयाविष्कारे । अहमित्यादि ।
यथा त्वमात्थ तत्तथा । मालती माधवानुरक्तेति स्वीकृतमित्यर्थः । अहं किं
नाम वदामीत्यभिनिवेशमात्रम् । अयं पुनः कुलकन्यकाजनः कथामध्ये कथम-