मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 330, कुल 377 में से
संदर्भ में पढ़ें८२ जगद्धरकृता [ अङ्कः ६
पृ० पं०
१५९ १ ॰परस्तात् । २ (इति गन्तुमिच्छति ।) ७ ॰सौहृदभरेति॰ ।
१६० ८ ॰स्थ्येन प्रसाधितः परिणाय्यात्मानम् । (इति पेटालक० ।)
१० यथाज्ञापयति भगवती । १२ ॰सुलभबह्व॰ ।
१६१ १ ॰न्दनः । यः प्रियामीदृशीं काम॰ । ३ ॰लार्यमसाद्धि-
'उत्तंसः कर्णपूरे च शेखरे च प्रकीर्तितः' इति विश्वः । अङ्गुलिपदेन चरणाग्रे
प्रणामाद्घृष्यतोक्ता । अन्योन्यदर्शनेन धात्रा । प्रीतिजननात्कामेन । चोरिकावि-
वाहान्मयेत्याशयः । माधवः । बाष्पायितमुद्गतबाष्पं वृत्तम् । मातृवत्स्नेहेनेदमुप-
पन्नम् । परिणतीत्यादि । लब्धिधानां कुलादिमतां प्रीतयः परिपाकरम्या
भवन्ति । अधुनावश्यत्वेन परिणतिपदम् । तैस्तैर्हेतुभिः पितृबन्धुत्वोपदेशकत्वादि-
भििरहं तव मान्या । हेतूनां बहुत्वेन वीप्सा । तत इह मालत्यां मत्तः परस्मान्म-
त्परोक्षे परिचयकूपकरणायां मा विरंसीर्मा विरतो भविष्यसि । करुणाया इति
पाठे 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इति पञ्चमी । तातेति सर्वं ततं
व्याप्तमनेनेति हे तात व्यापक । यद्वा तातो विधेयः । 'तातो विधेये जनके' इति
विश्वः । विरंसीरित्यत्र 'माङि लुङ्' इति भविष्यति लुङ् । वात्सल्यात्प्रभवानुकम्पातः ।
अतिक्रमोऽन्यथात्वम् । अत्र माला नाम नाट्यालंकारकथनम् । यदाह—'माला
बहूनां हेतूनां निर्देशः साध्यसिद्धये' इति ॥ १६ ॥ श्लाघ्यान्वयेत्यादि ।
उज्ज्वलकुला । चक्षुःप्रीतिजननी रूपवती । उपचितसौहार्दातिशयानुरक्ता । गुणो-
ज्वला शीलादिमती । एतत्सर्वं वशीकरणमस्त्येव गुरुतरम् । एवं सति युष्माक-
मियमिति हेतोरनन्तरं किं ब्रवीमि । अतः परं न वाच्यमस्तीत्यर्थः । इतिकारच-
तुष्टयं स्वरूपोपदर्शनाय । तथा च लब्धप्रार्थना सहजसिद्धैवेति भावः । इह प्रसिद्धि-
नामा नाट्यालंकारः । यदाह—'वर्णने वस्तुनो यत्तु गुणस्योत्कीर्तनं भवेत् । प्रसि-
द्धिरिह सा ज्ञेया नाटके कथिता बुधैः ॥' इति ॥ १७ ॥ प्रेय इत्यादि ।
वत्सयोर्मालतीमाधवयोरन्योन्यमेतद्विदितमस्तु यत्स्त्रीणां भर्ता प्रेयः प्रियतमं वस्तु
मित्रं सुहृद् बन्धुता बन्धुसमूहः सर्वे ईप्सिताः समग्रा मिलिताः शेवधिर्निधिर्जीवनं
च । पुरुषाणां धर्मदाराः पाणिगृहीताः प्रेय इत्यादि । बन्धुतेत्यत्र 'ग्रामजनबन्धु-
सहायेभ्यस्तल्' इति समूहे तल् । 'निधिर्ना शेवधिः' इत्यमरः । अनेन गान्धर्व-
विवाहो दर्शितः । स चानुरागमूलत्वाच्छ्रेष्ठः । यदाह—'अनुरागात्मकत्वेन गा-
न्धर्वः श्रेष्ठतां गतः' इति ॥ १८ ॥ मकरन्दः । जवनिका पिधानपटः । तत्रा-
न्तर्धानम् । स्त्रीणामग्रे स्त्रीवेषादिकरणेऽनौचित्यात् । मकरन्दः । मालत्यसि सं-
वृत्ता इत्यनेन वैमूढकनामा भाव उक्तः । यदाह—'वैमूढकं तु लास्यं स्यात्पुंसः
स्त्रीवेषधारणम्' इति । माधवः । कामयिष्यत इत्यनेन पराङ्गावतारः कृतः ।
कामन्दकी । अनुपलभ्भार्थमाह—वृक्षगहनेनेति । गहनेन वनेन विषमेण
वा । 'गहनं विषमे त्रिषु' इति विश्वः । उद्वाहमङ्गलं विवाहार्थं कर्म । गाढे-