मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 33, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । २५
सा रमणीयकनिधेरधिदेवता वा
सौन्दर्यसारसमुदायनिकेतनं वा ।
तस्याः सखे नियतमिन्दुकलामृणाल-
ज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ २४ ॥
अथ प्रणयिनीभिरनुचरीभिः कुसुमसंचयावचयलीलाभिलाषवती-
भिरभ्यर्थ्यमाना तमेव बकुलपादपोद्देशमागतवती । तस्याश्च कस्मिंश्चि-
दपि महाभागधेयजन्मनि बहुदिवसोपचीयमानमिव मन्मथव्यथावि-
कारमुपलक्षितवानस्मि । यतः ।
परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः
कथमपि परिवारप्रार्थनाभिः क्रियासु ।
लोचनपथगोचरं तस्याः स्वरूपमिदानीमपि प्रत्यक्षमिव विभाव्यमानं निर्वर्णयति—
सेति । रमणीयस्य भावो रमणीयकम् । 'योपधाद्गुरूपोत्तमात्' इति वुञ् । आ-
भिरूप्यमिति यावत् । तस्य निधिर्निक्षेपः शङ्खपद्मादिमान् । तस्याधिष्ठातृदेवता वा ।
सौन्दर्यस्य सर्वावयवसौष्ठवस्य निकेतनं मन्दिरं वा । सखे, तस्या निर्माणे कारणमु-
पादानमिन्द्वादि । न तु भौतिकम् । मदनश्च वेधाः । न तु साधारणो वेदाभ्यासजडः ।
यदाह—'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः' इत्यादि । अनेन
नायिकागुणवर्णनेन तद्विषयो महानुरागोऽपि श्रेयानिति बीजगुणप्रशंसनाद्विलोभनं
नाम मुखसंधेरङ्गमुक्तम् । यथा—'तद्गुणाख्या विलोभनम्' इति । गुणस्वरूपनिरूप-
णाद्गुणस्तुतिरूपा चतुर्थ्यवस्था माधवस्य प्रदर्शिता । यथा—'रूपौदार्यगुणैर्लीला-
चेष्टाहासितवीक्षितैः । दर्शनालापमाधुर्यैर्नास्यस्तत्ससमा वधुः ॥' इति । 'यत्रेदृशी
शिवा वाणी भवेत्सैव गुणस्तुतिः' इति । वितर्कश्च व्यभिचारी व्यज्यते । यथा—
'ऊहो वितर्क इत्युक्तः परार्थेषु यथामति' इति । संशयापह्नवयोः संसृष्टिः ॥ २४ ॥
अथेति । प्रणयिनीभिः प्रेमविषयाभिरनुचरीभिः परिसरवर्तिनीभिः । कुसुम-
संचयस्यावचय एव लीला तस्यामभिलाषवतीभिरभ्यर्थ्यमाना स्वयमेव गन्तुका-
मापि शालीनतया कुण्ठितेच्छा सती तदपनोदाय मनोविनोदिनीभिः प्रार्थ्य-
माना तमेव यत्राहं स्थितः । तस्याश्च कस्मिंश्चिदपि लोकोत्तरे । महाभागधेयाद-
श्वमेधाद्यपि तत्कर्मकलापं यदुत्पादने वराकप्रायं तादृशसुचरितविशेषाज्जन्म यस्य
तस्मिन् । अन्यादृशस्य तदभिलाषपात्रतालक्षणत्रिभुवनसाम्राज्यसिंहासनाधिरो-
हणसौभाग्यानर्हत्वात् । बहुदिवसोपचीयमानमिव चिरकालाप्रवर्धमानमिव मन्मथा-
ज्जाता या व्यथा तज्जन्यं विकारमुपलक्षितवानस्मि । उभयथा लिङ्गान्याह—यतः ।
परिमृदितेति । परिमृदितापचयेन म्लायमाना मृणाली बिसतन्तुरिव । 'जाते-
रस्त्रीविषयादयोपधात्' इति ङीप् । म्लानं ग्लानिमुपगतम् । कार्श्यं नाम मदन-
दशा सूचिता । क्रियासु स्नानपानादिकासु परिवारप्रार्थनाभिः परिजनस्य चाटुवा-