मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 31, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । २३
लोअणसुहावहं अत्तणो से पडिच्छन्दं । अहवा विस्सामसोक्खं
दाव अणुहोदु ।
मकरन्दः—तदस्यैव तावदुच्छ्वसितकुसुमकेसरकषायशीतलामो-
दवासितोद्यानस्य काञ्चनपादस्याधस्तादुपविशावः ।
(उभौ तथा कुरुतः ।)
मकरन्दः—वयस्य माधव, सकलनगराङ्गनाप्रवर्तितमहोत्सवा-
भिरामाकामदेवोद्यानयात्राप्रतिनिवृत्तमन्यादृशमिव भवन्तमवधारयामि ।
अपि त्वमवतीर्णोऽसि रतिरमणबाणगोचरताम् ।
(माधवः सलज्जमधोमुखस्तिष्ठति ।)
मकरन्दः—(विहस्य ।) किमवनम्रमुग्धमुखपुण्डरीकः स्थितोऽसि ।
पश्य ।
अन्येषु जन्तुषु च यस्तमसावृतेषु
विश्वस्य धातरि समः परमेश्वरेऽपि ।
सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा
मा लज्जया तव कथंचिदपह्नुतिर्भूत् ॥ २३ ॥
मालतीलोचनसुखावहम् । चित्रस्य दर्शनमात्रफलकत्वात् । आत्मनः प्रतिच्छन्दकम् ।
अथवा विश्रामसौख्यं तावदनुभवतु । पश्चाद्दर्शयिष्यामीति शेषः ॥ मकरन्दः—
तदिति । विकसितकुसुमकिञ्जल्कानां कषायशीतलो य आमोदो दूरविस्रमरो
गन्धः । कषायशीतलयो रसधर्मत्वेऽपि तादृशरसेनाकार्यसमवायादामोदधर्म-
त्वोपचारः तेन सुरभीकृतोद्यानस्य काञ्चनपादपस्य चाम्पेयतरोश्छायायामुपवि-
शावः ॥ सकलेत्यादि । अन्यादृशं विलक्षणावस्थम् । अपिः प्रश्ने ॥ विह-
स्येति । स्वमनोगतज्ञानादवनतानने माधवे सत्यं मदनविकार एव मदुन्नीतो
हेतुरेतद्वैलक्ष्यस्येति स्वमतिसंवादाद्विहस्य सानुकूल्यप्रदर्शनेन लज्जां शिथिलयि-
तुमाहेति शेषः। किमिति । मुग्धं सुन्दरम् । त्वदन्तःकरणनिर्विशेषे मयि किमा-
शङ्कया लज्जया वा । तावद्विस्रब्धं कथयेत्यर्थः । किं च न खलु त्वदुपज्ञ एवार्यं
स्मराभिषङ्गः सुरासुरनरसाधारणत्वात् । तेनानन्यकृतपूर्वान्तस्यानुचितवन्नैतदपह्नवो
न्याय्य इत्याह—अन्येष्विति । यो विश्वस्य धातरि जगत्स्रष्टरि सुरज्येष्ठे स्वदु-
हितृकामुके परमेश्वरे स्मरशासनेऽपि वामदेहार्धनिवेशितप्रेयसीके तमसावृतेष्व-
ज्ञानोपहतविवकेष्वन्येषु जन्तुषु । प्राणिमात्र इत्यर्थः । समोऽवैषम्येणाकुण्ठित-
व्यापारः । स तादृशोऽयं सर्वमनोगतश्चित्तजन्मा प्रसिद्धविभवः प्रथितप्रभावः
खलु ब्रह्मादीनपि स्ववशीकरोति । का कथान्येष्विति भावः । ततो लज्जया तव
मनोगतस्य विकारहेतोरपह्नुतिरपह्नवः । चित्ते नियमनमिति यावत् । मा भूत् ।