मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 303, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ४ ] मालतीमाधवटीका । ५५
पृ० प०
१०६ १ ॰समारम्भसरिसो परिणा० । ३ इदो । (इति कामन्दक्या
सह निष्क्रान्ते ।) ७॰विक्रयादन्यमुपा०।८॰मदयन्तिकायाः।
१०७ ३ माधवः—सुलभैव बुद्धरक्षिताप्रियसखी भवतः ।
शयितां करोति । कीदृशः । अकाण्डादकस्माद्विवर्तनेनान्यथाभावेन विरुद्धवर्तनेन
वा । दारुणो दुःखदायी सुहृदिव । यथा मित्रमानुकूल्यमुत्पाद्य सुखप्रदं सदकाण्ड
एव विरुद्धाचरणान्मनःपीडां करोति तथेत्यर्थः ॥ ७ ॥ मालती । पुनर्दर्शनं
न भवितेति भावः । अत एवैतावदित्यनेन करुणा । नयनानन्देत्यनेनानुरागः ।
मालती । अत्र पुरा विरहदशायां माधवप्रतिच्छन्दकादिदर्शनाद्धारितस्य जीवितस्य
पर्यवसानं वृत्तमिति परिणतपदस्यार्थः । कापालिकत्वं नृशंसता । अघोरघण्टस्य
सूचनमप्येतत् । माधवः । जन्मसाफल्यं मालतीप्राप्त्या । महामांसेति भाव्य-
ङ्कसूचनम् । वीरहस्तान्मांसं गृहीत्वा वीरायाभिमतवरदानमिति श्मशानसिद्ध-
योगिनीमतम् । यद्वा उभयथा मरणमुपस्थितम् । महामांसविक्रये मालतीला-
भोऽपि शङ्क्यत इति तत्करणम् । मांसविक्रयस्य मकरन्दसंनिधावशक्यत्वान्म-
करन्दं मदयन्तिकां प्रत्युत्कण्ठयति—वयस्येति । मदयन्तिकायाः कृत इति
शेषः । यद्वा अधीगर्थेति कर्मणि षष्ठी । मकरन्दः । अथ किं स्वीकारे । तन्म
इत्यादि । तन्मम चित्तं हरति यदेतादृशैरङ्गैर्मामालिङ्गितवती । सरसः सरक्तः
प्रहारो यत्र तादृशं मामवलोक्य । अत एव त्वरयागणितं स्खलत् प्रश्रथदुत्तरीयं
स्तनावरणवासो यस्याः सा । एतेन निरन्तरस्तनस्पर्शः सूचितः । अत एवान-
न्दसंदोहदायित्वादमृतसिक्तैरिव । भयवत्त्वेन त्रस्तैकवर्षीयहरिणस्येव चञ्चला
दृष्टिर्यस्याः सा । 'वर्षोऽब्दो हायनोऽस्त्री स्यात्' इत्यमरः ॥ ८ ॥ माधवः ।
त्रासेन तदालिङ्गनं न तु स्नेहादिति शङ्कापनोदाय दूतीसुलभतयानुरागमेवाह—
सुलभेति । प्रमथेत्यादि । सा तवालिङ्गनं प्राप्यान्यत्र कथं रमताम् । अपि-
तु नैव । इवशब्दोऽनवक्लृप्तौ । कुलीनैकमालिङ्ग्य नान्यत्र रमत इति भावः ।
कीदृशस्य । क्रव्यमाममांसमत्तीति क्रव्याद्व्याघ्रः । तं विनाश्य मरणकाले तां
रक्षितवतः । एतेन कृतोपकारितोक्ता । अतोऽपि नान्यत्र रमते पद्माक्ष्याश्चक्षुषो-
स्तथा तेन प्रकारेण त्वयि व्यापारश्च व्यक्तः स्नेहात्स्तिमितो मन्दोऽत एव रमणी-
यश्चिरमभूत् । रागेण तया साभिलाषमालोकितोऽसीति भावः । एतेनानुराग
उक्तः । यदाहानुरागप्रकरणे, 'तुल्यस्य कथामिक्षु सस्नेहं च निरीक्षते ॥'
'क्रव्यमामिषमुद्भासम्' इति हारावली ॥ मकरन्दः । पारा च सिन्धुश्च ते
नद्यौ तयोः संभेदः संगमः । अवगाह्य विलोक्य । स्नात्वेति यावत् । क्लमशान्ति-
हेतुतया महामांसादानहेतुतया च स्नानम् । माधवः । व्यतिकरः संगमः ।
जलेत्यादि । वधूर्नारीभिः सेविततटदेशः । कीदृशीभिः । जलेन निबिडित-
मश्लक्ष्णं यद्वासस्तेन व्यक्तौ निम्नोनतौ जघनादिस्तनाद्यौ यासाम् । अत एव