मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 301, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ४ ] मालतीमाधवटीका । ५३
पृ० प०
१०१ १ वत्स इत इतः । ४ ०अणुऊलं भविस्सदि त्ति ।
८ ०तिष्ठामव्याजं व्रज० । विधिः स्वास्थ्यं ध० ।
१०२ ५ (प्रकाशम् ।) पृच्छामि तावदायुष्मन्तम् । अपि भवा-
नमंस्त यथा भूरि० । ८ ०स्थायाः परिहीयसे ।
दृष्टिरसूयायां जडतालस्ययोस्तथा' इति । दृष्टिद्वयेन सुरतप्रागवस्थोक्ता । प्रेम्णा
उद्वेगादतिपरिपाकात्स्तिमितं स्थिरं लुलितमर्धमुकुलितं च । अर्धमुकुलितेयं दृक् ।
यदाह—'अङ्गादिश्वर्धमुकुला गन्धस्पर्शसुखादिषु । अर्धव्याकोपपद्माप्रप्रस्तार्ध-
मुकुलैः पुटैः ॥ स्मृतार्धमुकुला दृष्टिः किञ्चित्कीलिततारका' । अनेन रताभोग
उक्तः । नखदशनक्षतादिशङ्कया मानं सूचयति । किञ्चिदाकुञ्चिते आनमिते भ्रुवौ
यत्र तत् । एकस्या एव भ्रुव उत्क्षेपणं कुञ्चनमिह । यदाह—'एकस्या एव उत्क्षेपो
भ्रुवः कुञ्चनमुच्यते' । कोपे चास्य प्रयोगः । यदाह—'कोपे वितर्के हेलायां ली-
लादौ सहजे तथा । दर्शने ग्रहणे चैव भ्रुवमेकां समुत्क्षिपेत् ॥' मानस्याल्पत्व-
सूचनार्थमाङ्प्रयोगः । रतावसानमाह—हृदये हर्षानुभवेन मसृणं स्निग्धं मन्दं
वा । रतान्ते लज्जामाह—स्तम्भं लज्जान्विततया परितोऽर्धपुटत्वात् । कथं पुनः
संभोगो भावीति चिन्तया निष्कम्पम् । शून्यतया निष्कम्पं वा । तादृशं पक्ष्म
यत्र तद्विच्छेदमाह—आकेकरमक्षि यत्र तत् । 'आकेकरा त्वरालोके विच्छेदे
प्रोषितेषु च' इत्याद्युक्तम् । तदिहाकेकरलक्षण आकुञ्चितेत्यादि प्रथमपदेनोक्तम् ।
द्वितीयेन मुहुर्व्यावृत्ततारेत्युक्तम् । तृतीयेन हर्षितार्धेत्याद्युक्तम् ॥ २ ॥ मद-
यन्तिका । अपिनाम संभावनायाम् । अव्ययसमुदायत्वात् । माधवः। करु-
णावस्थामाह—चिरादित्यादि । चिराशङ्कित आशातन्तुर्मावतीप्राप्त्याशारूप-
हृदयावलम्बनं संप्रति भिद्यताम् । बिसिनीसूत्रवद्भिदुरो भेदनस्वभावो यतः ।
भिदेः कर्मकर्तरिति कुरच् । संभूय त्रुटितत्वेन मृणालतन्तुसाम्यम् । नैराश्यान्म-
रणमाह—आधिर्मनोव्यथा तद्रूपो व्याधिरनवच्छिन्नोऽत एव महान् । व्याप्नोतु ।
इह महत्त्वनिरवधिलाभ्यां मरणमाह । आशाच्छेदनान्तरं च मरणमुचितमेव ।
यदाह—'सर्वैः कृतैः प्रतीकारैर्यदा नास्ति समागमः । कामाग्निना समाप्तस्य
जायते मरणं ततः ॥' स्त्रीहेतुमरणादधीरत्वमाशङ्क्यानुशोत्तरमाह । पारिलवधुरा
चपलकक्षा सत्यं स्थितिं मयि बध्नातु । अभीष्टलाभेन विधिर्निराकुलो भवतु ।
मालतीं विना दुःसहवेदनादायी मनोभूः कृतकृत्यो भवतु । मरणादधिकं किं
कर्तव्यमित्यर्थः । एतदुपालम्भगर्भं वच उद्वेगात् । यदाह—'इहाहचिन्तानिः-
श्वासग्लानिखेदप्रजागरैः । रोदनैर्मन्दभणितैर्दैवोपालम्भनेन च ॥' इति । समा-
नेत्यादि । वामारम्भे प्रतिकूले विधौ ममैषा परिणतिः पूर्वोक्ता युक्तैव । की-
दृशस्य । तुल्यप्रीतिं दुष्प्रापं जनं याचितवतः । वामे हि विधौ सुलभमपि न
लभ्यते किं पुनरसुलभमिति भावः । दृष्टकारणस्यानुपलम्भाद्दिघेर्वामत्वम् । अ-