मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 292, कुल 377 में से
संदर्भ में पढ़ें४४ | जगद्धरकृता | [ अङ्कः ३
पृ० प०
८२ ६ माधवः—अन्य एवाक्षुण्णः कथाप्रकारो भगवत्याः ।
७ अदिदु० । ९ ०ख्खी । यतोऽधुना श० ।
८३ १ मालती—(जनान्तिकम् ।) स० । २-३ ०आसङ्गन्तीए
भअवदीए भीदाविदम्हि । ता किं दाणीं एत्थ पडिव-
ज्जिस्सं । ८ ०वेअणाधिअदरम० । ९ ०णन्दइ केलिक-
लाओ । केवलं कमलाअन्तकन्त० ।
स्वकार्यक्षमता, गर्भपदेन बाह्यान्तरभावनादृढतोक्ता । दावप्रेम्णा वनवह्निप्रीत्या
चन्द्रकिरणान् बारंवारं श्रयति । एतेन चन्द्ररश्मीनां दाहकत्वमुक्तम् । अत्र प्रे-
मपदेन नायिकानुरागस्य च विरोधिविमर्शशून्यत्वं तृतीयया चाङ्गसङ्गहेतुत्वं च
ध्वनितम् । कीदृशः । सरसपद्मिनीपत्रमात्रान्तरितो ग्लायमानकायः । सर्वत्र
मृत्यव इति योज्यम् । तथा च मरणाय कृतोद्यम इति भावः । यद्वा अन्तरायो
मरणे विघ्नः । तत्र पद्मिनीपत्रहेतुलम् । तदिह चन्द्रापादादीनां कामोद्दीपकत-
यानर्थहेतुत्वेन विप्रलम्भस्योत्कर्षः सूचितः । किं च मनोविकार इन्द्रियजन्य इ-
त्यनेनेन्द्रियाणां शान्तिः कृता । नवचूतदर्शनेन नेत्रस्य चूतंरानन्दलमुकुलितत्वा-
भ्यामतिदुःखदत्वम् । कोकिलरवाकर्णनेन श्रोत्रस्य । बकुलगन्धसंबन्धेन घ्राणस्य ।
वायुचन्द्रकरयोः स्पर्शेन त्वच इति ॥ १२ ॥ माधवः । अक्षुण्णोऽन्याननुभूतः
कथाप्रकारः कथनक्रमः ॥ मालती । बालचूतदर्शनादेरतिपीडाकरत्वेन माल-
त्यापि ज्ञानादेवमुक्तमिति भावः ॥ कामन्दकी । अन्यत्रेत्यादिना लघ्येव प्रथम-
मनुरक्तोऽयमिति दर्शितम् । तपस्यनुकम्प्यः । 'तपस्वी तापसे चानुकम्प्ये च'
इति विश्वः । अनेन वैदेशिकोऽयं वराक इति मयैतदुच्यते न कारणादित्युकम् ।
शक्यमिति । तथा च लमनुरागिणी भवेत्यर्थः ॥ मालती । अत्रात्मनो मम ।
किमपीत्यमङ्गलतयावचनीयं मरणमित्यर्थः । भीतायितेत्यत्राचारे क्यङ् । कि-
मिति । तज्जीवनाय ममापि तत्रानुराग इति वक्तुमुचितमपि कुमारीत्वेनानुक्त-
मतस्त्वं वदेति भावः । कामन्दकीं प्रति जनान्तिकमिदम् । माधवश्च गुप्तः ॥
माधवः । स श्रुत्वाह—दिष्ट्येत्यादि ॥ लवङ्गिका । अत्र एवंवादिनोत्यत्र
कामावस्था गुरुजने लज्जया वक्तुमनर्हापि मालतीनिमित्तमाधवावस्थाश्रवणात्सापि
तन्निमित्ता कथ्यत इति भावः । अस्माकं भर्तृदारिका परिजनं दुनोतीत्यन्वयः ।
आश्लिष्टं स्पृष्टम् । मुग्धो बालः । कन्दं बिसम् । बालकमलिनीमूलं मृदुतरं रवि-
करस्पर्शानम्लानं च भवति । तदनेन दृष्टान्तेन निःसहलतनुत्वे अवयवानामुक्ते ।
तद्दशायामपि सौन्दर्यद्योतनाय सुन्दरपदम् । अधिकतररमणीयापीत्यनेन कामा-
लिङ्गितकायस्य कान्तिप्रकर्ष उक्तः । अत एवापिविस्मये । अतिक्रान्तस्य सुख-
जनकत्वेनैतस्येन दुःखजनकत्वे चित्रात् । दुःखप्रकारमाह—नाभीत्यादि ।
अत्र यत इत्याध्याहार्यम् । केलिः क्रीडा । कलाश्चतुःषष्टिः । यद्वा केलीनां कलां-
शमात्रम् । कथं तर्हि दिनानि गमयतीत्याह—केवलमित्यादि । कमलयमानं