मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 290, कुल 377 में से
संदर्भ में पढ़ेंपृ० प०
७६ ७ दृष्ट्वा लव० । १० जाड्येन च०
७८ १ ०वि अण्णारिसं अ० । ८ ०जातासि । तथाहि० ।
८० ३ ०मामकीनस्य । ०यं निब० ।
जाड्येन जडिम्ना करणेन मम मनसा विकारः स्वरूपान्यथाभावः संधार्यते । की-
दृशः । द्रवमय इव द्रवमयः । हृदयद्रवीकरणात्स्वेदादिमत्त्वाच्च । अन्यस्याः समाग-
माद्द्रवमयोविकारोऽस्यास्तु सांनिध्यादेवेति कर्मातिशयदर्शनादाश्चर्यम् । यदाह भ-
रतः—'कर्मातिशयनिर्वृत्तो भवेद्विस्मयसंभवः । सिद्धिस्थानेष्वसौ साध्यः प्रहर्षपुल-
कादिभिः॥' यथामलेन्दुसंनिधौ जडिमानं शैत्यमासाद्य शैलेनैव चन्द्रकान्तेन शैलस्य
द्रवमयो विकारो द्रवत्वं संधार्यते । अत्र महीधरसादृश्येन माधवस्य धीरत्वादिगुणा-
वष्टम्भसंभार उक्तः । 'जात्येन' इति पाठे जात्येन जातिमत्ता । उत्कृष्टेनेति यावत्।
चन्द्रकान्तेनेत्यस्य परं विशेषणं द्रष्टव्यम् । यद्वा मनोविशेषणमपि । जात्येनाभिज-
नवतापि । अत्रापिरध्याहार्यः । अत एवाश्चर्यम् ॥ ५ ॥ संप्रतीति । पुरा का-
मवेगस्याङ्कुरावस्थया रमणीया । अधुना तु तस्य पल्लवितत्वेन रमणीया ॥ इदमेव
स्फोटयति—ज्वलयतीत्यादि । संप्रति मालत्यङ्गैः कामाग्निमुद्दीपयति । चित्तं
सोन्मादं करोति । नेत्रं कृतप्रयोजनं विधत्ते । ममेति शेषः । कीदृशैः । परिमृ-
दितचम्पकमालावद्विलासैर्ललितैश्चालसैर्मन्दैर्लज्जया निभृतत्वेनेति भावः । 'यान-
स्थानासनादीनां नेत्रवक्त्रादिकर्मणाम् । उपयातविशेषो यः स विलासो मतो बुधैः ॥'
इति भरतः । 'हस्तपादाङ्गविन्यासभ्रूनेत्रोष्ठप्रयोजितम् । सुकुमारविधानेन ललितं
तन्निगद्यते ॥' इति भरतः । यद्वा परिमृदितचम्पकमालाविलासानि म्लानानि ।
ललितानीतस्ततः क्षिप्तानि । अलसानि मन्दानि । ततस्त्रिपदकर्मधारयः । ललधा-
तुश्चञ्चल्यार्थेऽपि । धातोरनेकार्थत्वात् । 'लुलितैरलसैः' इति पाठे लुलितानीतस्ततः
क्षिप्तानीत्यर्थः ॥ ६ ॥ प्रथमेत्यादि । संप्रति मया मेघमालाभवजलसेचनेन क्ष-
णबद्धकलिकनीपस्य डम्बरः साम्यं प्रपञ्चो वावलम्ब्यते । कीदृशेन । प्रथमप्रियाव-
चनसंश्रवणाद्व्यक्तरोमाञ्चेन । संस्तवेति पाठे संस्तवः परिचयः । तदनेन दृष्टान्तेन
सर्वाङ्गीणं पुलकं तस्य च स्थैर्यमुक्तम् । 'घनजीमूतमुदिर' इत्यमरः ॥७॥ माधवः ।
अपरिमेयेत्यादि । पुष्पत्रोटनकाले मालतीस्तनमुकुलादिदर्शनादानन्दसंदोहेन
माधवस्य संतोषप्रकाश इति भावः ॥ अज्ञातमाधवसंनिधानां मालतीं श्रमोपन्या-
सव्याजेन कामन्दकी श्लिष्टनर्मवचनमाह—अयीत्यादि । निःसहा परिश्रान्तासि
लमतो विरम त्यज । खेदमिति शेषः । यद्वा विरम पुष्पावचयात् । उपविशेति भावः ।
पक्षे निःसहा कामाद्ग्लाना त्वं जातासि ततो विशेषेण रमस्व । आशंकायां
लोट् ॥ स्खलयतीत्यादि । हे सुभ्रु शोभनभ्रूयुते, वल्लभालोकनेन समं यथा
तथा त्वयि खेदो विलसति स्वव्यापारं कुरुते । यथा वल्लभालोकनं तथा खेद इति
भावः । पक्षे वल्लभेनावलोकनं खेदश्च । अत एव सर्वथेति तुल्यत्वम् । तदेवाह—