मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 286, कुल 377 में से
संदर्भ में पढ़ें३८ जगद्धरकृता [ अङ्कः २
पृ० प०
६७ ६ ०वैक एव । १२ ०विद्याधारः शि० । १३ ०चन्द्रमधुरः ।
६८ ८ ०उग्गमो । (नेपथ्ये शङ्खध्वनिः ।) । ११ ०मवासोत्कण्ठानां० ।
६९ १० ०दिणा सोवाणेण ओ० । १२ ०ष्टार्थदूतीवृत्तस्य ल० ।
लायुक्तः । 'नायके वर्णयेद्दूती कलावत्त्वं च रम्यताम्' इति भरतः । नयवतां
चक्षुष्मतां महोत्सवस्य कारणम् । नेत्रप्रीतिजनकत्वात् । यथोदयगिरेरेको बालच-
न्द्रोऽभिनवशश्युदेति सोऽपि स्फुरितगुणोन्मीलन्नैर्मल्यादिका या द्युतिः प्रभा तया
सुन्दरः कान्तः कलावान्नेत्रानन्दहेतुश्च भवति ॥ १० ॥ बालत्वादितस्तदनागम-
नमाशङ्क्याह—असावित्यादि । असौ शिशुरपि बालोऽपि संप्रतीहागतः ।
अस्तीति शेषः । कीदृशः । विद्याधारः त्रयीतदङ्गविद्यावित् । बालः पञ्चदशवर्षव-
यस्कः । 'बालो वाप्यूनषोडशः' इति वचनात् । भवनान्निर्गत्य बहिर्भूय । अनेन
पथिकलमपास्तम् । यौवनमाह—अविकलः पूर्णो यः शारदशशी तस्मान्मनोज्ञ-
स्तद्वद्वा मनोज्ञः । यद्दृष्टिविषये पुरं नारीणां कटाक्षैः संजातनीलनलिनगवाक्षमिव
भवति । कुवलयितमित्यत्र तारकादित्वादितच् । कीदृशैः । उन्मादतरलैः कामा-
वेशचपलैः । यदयं रथ्यया याति तदोन्मादान्विता युवत्यो वातायनेनैनं पश्यन्ति ।
तन्न तन्नयनैः संजातकुवलयमिव लक्ष्यत इत्याशयः । अनेन विद्यावत्त्वनूतनत्वरम्य-
त्वादिकमुक्तम् ॥ ११ ॥ विद्यामित्यनेन विद्यावशेनायात इत्यनौद्धत्यं संबन्धार्थदेवरा-
तप्रस्थापनगोपनं च कृतम् ॥ मालती । सखि । श्रुतं त्वया । एतेनाभिलाषं दर्श-
यति ॥ लवङ्गिका । लवङ्गिकैतद्घटयति । अनेन महाकुलिनत्वं न तु कामन्दक्याः
कल्पनेति दर्शितम् ॥ कामन्दकी । कालातिपातः कालक्षेपः ॥ क्षिपन्नि-
त्यादि । संप्रति गगनेऽयं संध्याशङ्खध्वनिः संध्याकालसूचकः शङ्खशब्दो विच-
रति श्रूयते । किं कुर्वन्, विहगमिथुनानां चक्रद्वन्द्वानां प्रत्यासन्नविरहात्सोत्कण्ठा-
नाम् । निद्रैव मुद्रा । संभाषणप्रतिरोधात् । तां प्रथमतः क्षिपन्हरन् । कीदृ-
शीम् । मदनकलहः सुरतं तस्य छेदोऽवसानं तेन सुलभाम् । यद्वा मदनकलह-
श्छिद्यतेऽनेनेति घञ् । 'पुंसि संज्ञायाम्' इति वा घः । मदनकलहच्छेदो रतं ततः
सुलभाम् । सुरतश्रमजनितामित्यर्थः । संप्रति धवलगृहाणां महत्सु गह्वरप्रदेशेषु
प्रतिध्वनितो घनतां दधानः । अत एवानिभृतः प्रौढः संन्विचरति । यद्वा प्रथ-
मतः खे विचरति तदनु दिवा केलिकलहच्छेदात्सौधसमीपतरुनिवासकलविङ्कमि-
थुनानां निद्रामुद्रां क्षिपन्विचरति । ते हि प्रबलशङ्खध्वनिनिबोधिताः कलकलं
कुर्वन्तीति भावः ॥ १२ ॥ मालती । अपवार्य निभृतम् । 'निगूढभावसंयु-
क्तमपवारितकं भवेत्' इति भरतः । अधुना मनःप्रविष्टसाहसवाञ्छया ब्रूते—
लवङ्गिका । 'संजणणं' इति पाठे संजननं सोपानमेव ॥ कामन्दकी । तटस्थतया
घटितकत्वेन साधूक्तम् । निसृष्टार्थेति । 'स्त्रीपुंसयोराशयमादधाना स्वयं च कार्यं
प्रतिपादयन्ती । सृष्टार्थिका सा परदारयोगे दूती नियोज्या बहुधा सुधीभिः ॥'
इति भरतः । मालतीं प्रतीत्यनेन मदयन्तिकां प्रति विघ्नत एवेति भावः ॥