मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 278, कुल 377 में से
संदर्भ में पढ़ें३० जगद्धरकृता [ अङ्कः १
पृ० प०
४६ ८ मासक्ति० ।
४७ ६ इति बकुलवीथिनाम प्रथमोऽङ्कः ।
त्यर्थः । मम गात्रं शरीरम् कर्तृ । रणरणकस्य वियोगतरोर्वृद्धिमुपचयं बिभ्र-
दावर्ति भ्राम्यदस्ति । यद्वा रणरणः कामस्तस्य विवृद्धिअधिकाधिकदशागामित्वम् ।
'भारो रणरणः कामो विषयः' इत्युत्पलिनी । तथा मम हृदयम् । कर्तृ । अन्त-
र्दहति । ज्वलतीत्यर्थः । तन्मयत्वं मालतीमयत्वं च धत्ते ॥ ईदृशी मम दशा
सद्य एव विपत्तिमादधाति । तदत्र यथावत्त्वमाचरेति भावः । अत्रावर्तीति
व्याधिः । ज्वलतीत्युद्वेगः । तन्मयत्वमित्युन्मादः । हृदयस्य तु तन्मयत्वधारणेन
दुःसहदशायामपि जीवनाशा दर्शिता । 'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि'
इत्यमरः ॥ ४४ ॥ निष्क्रान्ता इति । बीजार्थं युक्तं कृत्वा निष्क्रमो भवति ।
यदाह—'बीजार्थं युक्तियुक्तं च कृत्वा कार्यं यथारसम् । निष्क्रमं तत्र कुर्वीत
सर्वेषां रङ्गवर्तिनाम् ॥' इति ॥ बकुलवीथीति । 'नानारससमायुक्ता संधि-
द्वयविभूषिता । अर्थप्रकृतिभिः पूर्णा स्यादेकाङ्का तु वीथिका ॥ त्रिभिः पात्रैः
प्रयोज्येयमुत्तमाधममध्यमैः । कर्तव्या नायिका चात्र शृङ्गारद्वयसंयुता ॥'
इति भरतः ॥
प्रासूत यं रत्नधरो गुणाढ्यो गुणाढ्यरूपा दमयन्तिका च ।
जगद्धरं तत्कृतटिप्पणेऽङ्को गतोऽयमाद्यो रसराजराजी ॥
इति प्रथमोऽङ्कः ।