मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 265, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः १ ] मालतीमाधवटीका । १७
पृ० प०
२२ ५ ॰प्लवनादिवाभूत् । ८ 'इत इतः' इत्यस्याग्रे मा-
धवः—(परिक्रम्य ।) कथं प्रियवयस्यो मम मकरन्दः ।
मकरन्दः—(उपसृत्य ।) सखे माधव, ळ०' इत्य-
धिकम् । ८ ॰तपति तपनः । त० ९ माधवः—
यदभिरुचितं वयस्याय । (इत्युभावुपविशतः ।)' इत्यधि-
कम् । १० ॰बालवउलुज्जाणं० ।
शान्तरयोगो विकारस्तद्योगि यौवनम् । अयं तु युवेत्यर्थः । अत्र भ्रमतिपदेनाव-
च्छिन्नक्रियता, तद्वारा सर्वकालता, भुवपदेन सर्वदेशता, आज्ञापदेन युक्तिजि-
ज्ञासां विना स्वीकारः, विकारिपदेन माधवाङ्गीकारिता च ध्वनिता । ललिताः
सुन्दरा मधुराः परिभाव्यमानास्ते ते प्रसिद्धा भावा रमणीवदनविभ्रमादयो धी-
रतां धैर्यं क्षिपन्त्यपनयन्ति । तदनेन कामकृतमेतदुन्नीयत इति भावः । 'प्रकृ-
तिमधुराः' इत्यपि पाठः । तत्र प्रकृत्या स्वभावत एव मधुरा मनोहराः ॥ २० ॥
माधवप्रवेश इह द्विपदिकया । यदाह—'शोकविभ्रमयुक्ते तु व्याधिचिन्तासमा-
श्रिते । श्रुतवार्तादिवैरूप्ये योज्या द्विपदिका बुधैः ॥' इति । स्वगतमिति ।
'यत्त श्रव्यं न सर्वस्य स्वगतं तदिहोच्यते' इति भरतः ॥ अनुस्मृतिमाह—
तामित्यादि । तां नायिकामचिरमधुनैव विचिन्त्य कथं मम चेतः । कर्तृ ।
कथमपि महता कष्टेन व्यपवर्तते व्यावर्तते नागच्छति वा । तस्यां लग्नं तामेव
धावतीत्यर्थः । किं कृत्वा । बालत्वेन कुलीनत्वेन च या लज्जा तामकाण्ड ए-
वाप्रस्ताव एव विजित्य । रभसकाल एव हि लज्जाद्यभावप्रस्ताव इति भावः ।
विनयं मनोमलक्षालनोपदेशं दूरीकृत्य । महानायकताया सहजिकं धीरत्वमु-
न्मूल्य । कीदृशम् । मन्थरो मन्दो विवेक इतिकर्तव्यता यत्र तत् । क्रिया-
विशेषणं वा कीदृशम् । इन्दोश्चन्द्रात्सुन्दरं मुखं यस्यास्ताम् । वैयधि-
करण्येऽपि गमकत्वात्समासः । इह तामित्यनुस्मृतिः, इन्दुसुन्दरेति गुणकीर्तनम्,
विभाव्येति चक्षुःप्रीतिः, कथमपीत्युद्वेगः, लज्जां विजित्येत्युन्मादः, मन्थरविवेक-
मिति जडतेत्यनेकावस्थोक्ता ॥ २१ ॥ यदित्यादि । तत्संनिधौ यन्मदीयं
हृदयं विस्मयेनाद्भुतरसेन स्तिमितं निश्चलम् । एतेन स्तम्भ उक्तः । अत-
एवास्तमितो नाशं प्रापितोऽन्यो भावो विस्मयातिरिक्तो धर्मो यत्र तत् । अ-
नेन जडतोक्ता । यदाह—'इष्टं त्वनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् ।
तूष्णीकः परवशगः स भवति जडसंज्ञकः पुरुषः ॥' आनन्देन निरन्तरसुखेन
मन्दं मन्थरं चाभूत् । अमृतप्लवनादिव सुधासेकादिव । अथ च योगाभ्या-
सेन कुण्डलिन्याचरणेनामृतसेकादिवेत्यर्थः । तत्रापि परमानन्दसंदोहो भवत्येव
एतेनाद्भुतनायिकादर्शनजातभावभरमन्थरता दर्शिता तद्धृदयमधुना तद्वियोगे-
ऽङ्गारक्षुभितमिवाङ्गारावसृष्टमिव व्यथमानं पीडायुक्तमास्त इत्याश्चर्यम् । न च