मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 217, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः । २१५
अकरुण वितर स्मितोज्ज्वलां
दृशमतिदारुण देहि मे गिरम् ।
सहचरमनुरक्तचेतसं
प्रियमकरन्द कथं न मन्यसे ॥ २३ ॥
(माधवः संज्ञां लभते ।)
मकरन्दः—(सोच्छ्वासम् ।) अयमचिरधौतराजपट्टरुचिरमांसल-
च्छविर्नवजलधरस्तोयशीकरासारेण संजीवयति मे प्रियवयस्यम् ।
दिष्ट्या समुच्छ्वसितस्तावत् ।
माधवः—तत्किमिवात्र विपिने प्रियावार्ताहरं करोमि ।
फलभरपरिणामश्यामजम्बूनिकुञ्ज-
स्खलनतनुतरङ्गामुत्तरेण स्रवन्तीम् ।
उपचितघनमालप्रौढतापिच्छनीलः
श्रयति शिखरमद्रेनूतनस्तोयवाहः ॥ २४ ॥
(सरभसमुत्थायोन्मुखः कृताञ्जलिः ।)
वरम्यं लामुद्धरता लोकान्तरं नयता । जीवितमिवोद्धरता । एतच्च सर्वं विलापप्रका-
रत्वान्न तावद्रसविशेषपोषमावहति ॥२२॥ स्पृशन्माधवशरीरम् । अकरुणेति ।
स्मितसाहचर्येणोज्ज्वलामकलुषां दृशं वितर । तथातिदारुणगिरं स्मितोज्ज्वलां
देहि । प्रियो मकरन्दो यस्य तादृक् तत्संबोधनम् । मां सहचरमनुरक्तचित्तम्,
न तु बाह्यानुरागम् । कथं न मन्यसे कथं न जानासि । किमहं कदाप्युपरक्तचेता
इति भावः । अत्र विशिष्टदृग्वचनदानमात्रेणैवेदानीं मम जीवनं स्यात्तन्मात्रेऽपि किं
ते वैमुख्यमकरुणेति दारुणोक्तौ निमित्तम् ॥ २३ ॥ मकरन्दः । अचिरधौतः
सद्योनिर्मलीकृतो राजपट्टः श्यामः पाषाणविशेषस्तद्वदेव रुचिरा रम्या तथा मांसला
पुष्टा छविर्यस्य तादृगभिनवमेघसमूहः । आसारो धारासंपातः । अत्र वियोगिनो मा-
धवस्योच्छ्वासे विरहिस्वर्गातिदुःसहन्वजलधरासारानुकूलत्वे प्रार्थनं मकरन्दस्य प्रि-
याविरहितात्मसमानतयान्येष्वपि जलधरादीनां सुखजनकत्या भ्रान्तेर्ज्ञेयम्। दिष्ट्या
भाग्येन ममास्मिनथ । उच्छ्वसितो विमुक्तनिरुद्धोच्छ्वासतावदयं धृत इत्याशयः ॥
माधवः—तदिति।'एति जीवन्तमानन्दः' इत्यस्यापि वाल्मीकिवचसः प्रत्याशा-
वलम्बनीयेति भावः । चिरेणामुपगम्येति पूरणीयम् । किमिति सामान्यजातौ नपुं-
सकलम् । प्रियायै म्रत्कुशलवार्तासमर्पकम् । फलभरेति । अद्रेः शृङ्गं नवो मेघः
श्रयति । तदेनमेव वार्त्ताहरं करोमीत्याशयः । कल्पेक्षायामुत्तरेण स्रवन्तीमिति
योज्यम् । स्रवन्त्या उत्तरायां दिश्यदूरे फलभरस्य यः परिणामः पाकस्तेन श्यामा
या जम्बूलतास्ताभिर्वेष्टितो यो निकुञ्जस्तत्र यत्स्खलनं प्रतिघातस्तेन तनवस्तरङ्गा
यस्यास्तथोक्ताम् । तथोपचितघनमाला निरन्तरपङ्क्तयो ये तापिञ्छास्तद्वन्नील इति