मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 215, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः । २१३
तरुणतमालनीलबहुलोन्नमदम्बुधराः
शिशिरसमीरणावधूतनूतनवारिकणाः ।
कथमवलोकयेयमधुना हरिहेतिमती-
र्मदकलनीलकण्ठकलहैर्मुखराः ककुभः ॥ १८ ॥
(निःश्वस्य शोकार्तिं नाटयति ।)
मकरन्दः—कोऽप्यतिदारुणो दशाविपाको वयस्यस्य संप्रति
वर्तते । (सास्रम्) मया पुनरज्ञानेन वज्रमयेन किल विनोदः
प्रारब्धः । (निःश्वस्य ।) एवं च पर्यवसितप्रायेव नो माधवप्रत्याशा ।
(सभयं विलोक्य ।) कथं प्रमुग्ध एव । हा सखि मालति, किमप-
रम् । निरनुक्रोशासि ।
अपहस्तितबान्धवे त्वया
विहितं साहसमस्य तृष्णया ।
विषादद्योतकमव्ययम् । तरुणेति । हा प्रिये, त्वमपि यदि मद्वियुक्ता जीवन्ती
तिष्ठसि तत्कथमधुनेदृशो दिशो द्रष्टुं शक्यास्तत्कथमवलोकयेयम् । कीदृश्यः क-
कुभ इत्यत आह—प्रौढतापिञ्छतरुवन्नीलास्तथा बहुला बहवस्तथोन्नमन्तो मेघा
यासु ताः । तथा शीतमारुतावधूतप्रत्यग्रशीकराः । तथा हरिहेतिमतीरिन्द्रका-
र्मुकयुक्ताः । तथा मदेन हर्षेण कला ये नीलकण्ठकलहास्तैर्मुखराः । अत्रेन्द्रचाप-
व्याप्तास्तथा मदान्धबर्हिकलहैर्दुःशब्दान्विताः कथमवलोक्याः संप्रतीदृश्यां दशा-
यामिति दुरालोकत्वे हेतुः । शाब्दो ध्वनिः । अर्थस्तूद्दीपनविभावत्वेन ॥ १८ ॥ विर-
हिजनात्यन्तानभीष्टा उन्नमदम्बुधरादिभिर्व्याप्ताः कथमवलोक्या मादृशैरिति शो-
कश्चित्तवैधुर्यम् । आर्तिः पीडा । नाटयति माधवभूतो नटो न तु माधव एव ।
यतोऽवस्थानुकृतिर्नाट्यमुच्यते । न च माधवः स्वस्यावस्थामनुकरोतीति युक्तम् ॥
मकरन्दः । कोऽपि वक्तुमप्यशक्यो दशाविपाको मरणावस्थारूपः । वज्रमयेन ॥
सुहृद्विनाशदर्शनदशायामपि जीवतीति वज्रमयत्वहेतुः । विनोदो दुःखनिवारणो-
पायः । माधवस्य जीवनोपाय इति निःश्वस्य चिन्तयति-एवं चेति । आशा-
सनोपायाभावादवसितप्रायेव समाप्तेव । सख्युः प्रियात्वेन सखीति संबोधनम् ।
किमपरं भवद्बहुदूषणोक्त्या प्रयोजनम् । निरनुक्रोशासि निर्दयासीत्येतावत्तैव त्वया
संवृत्तानि स्वदूषणानि ज्ञेयानि । यथा त्वयानवलोकितः पतिर्यस्तत्प्राप्तिनिमित्तमा-
रब्धमहामांसविक्रयप्रसङ्गेन लब्धजीवितं रक्षितवांस्तथा त्वमपि कुतोऽप्यतर्किताग-
मया माधवजीवितं न रक्षसीति निरनुक्रोशा । अपहस्तितेति । मालतीसंबो-
धनमपेक्षितमातृपित्रादिसंमतिरिति । यया त्वया तदानीमस्य माधवस्य लोभेन