मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 213, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः । २७९
(परिक्रम्योपविशतः ।)
मकरन्दः—(स्वगतम् ।) भवतु । एवं तावदाक्षिपामि । (प्रकाशम् ।)
वयस्य माधव,
एतस्मिन्मदकलमल्लिकाक्षपक्ष-
व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
बाष्पाम्भःपरिपतनोद्गमान्तराले
दृश्यन्तामविरहितश्रियो विभागाः ॥ १४ ॥
(माधवः सोद्वेगमुत्तिष्ठति ।)
मकरन्दः—कथं निष्प्रतिपत्तिशून्यमुत्थायान्यतः प्रवृत्तः ।
(निःश्वस्योत्थाय ।) सखे, प्रसीद । पश्य ।
वानीरप्रसवैर्निकुञ्जसरितामासक्तवासं पयः
पर्यन्तेषु च यूथिकाकुसुमसामुज्जृम्भितं जालकैः ।
उन्मीलत्कुटजप्रहासिषु गिरेरालम्ब्य सानूनितः
प्राग्भागेषु शिखण्डिताण्डवविधौ मेघैर्वितानायते ॥ १५॥
अपि च ।
लितो मिश्रीभूतो यो मांसलः पुष्टो गन्धस्तद्वन्धुस्तत्सहचरः । तथा पुरः परिव-
र्तमाना ये कल्लोलास्तेषां शीकरा एव तुषारास्तैर्जडो मन्दगतिः ॥ १३॥ अथ मक-
रन्दो मित्रस्य दुरन्ताधिदर्शनेन भ्रान्तचित्ततया विरहविपक्षतामुद्दीपनभावनां
विस्मृत्य माधवस्यान्वचित्तताकरणाय तानेवोपन्यस्यति । आक्षिपाम्यन्यमनस्कं
करोमि । एतस्मिन्निति । एतस्मिन्सरास भूप्रदेशा दृश्यन्ताम् । प्रदेशानां वि-
शेषणान्याह—सहर्षमन्द्रध्वाना ये मल्लिकाक्षा हंसविशेषास्तेषां पक्षव्याधूताः पूर्वं
पश्चात्स्फुरन्त उरवो दण्डा येषां पुण्डरीकाणां तानि येषु भूभागेषु ते तादृशाः ।
बाष्पाम्भःपूरितलोचनत्वात्कथं दृश्यन्तामित्यत आह—एकस्य बाष्पाम्भसः परिप-
तनमन्यस्योद्गमनमित्यनयोरन्तराले ॥ १४ ॥ माधवस्य मकरन्दोक्तविनोदनोपदेश
एवोद्वेगनिमित्तम् । मकरन्दः । निष्प्रतिपत्त्या मम तावद्वाक्यार्थानवबोधेन शून्यं
शून्यहृदयता यथा स्यादेवमुत्थाय मकरन्दोपदिष्टातमविनोदनहेतून्विपरीतानाश-
ङ्कावलोकयितुमसमर्थः। उत्थायान्यतोऽस्मात्स्थानात्स्थानान्तरं गन्तुं प्रवृत्त इत्यर्थः ।
अथ मकरन्दो मित्रस्य दुःसहं दशान्तरमापतत्प्रतिकर्तुमसमर्थो निःश्वस्य वदति—
प्रसीद चित्तस्याभिलाषितां मुञ्च । अथवा प्रसन्नो भव । वानीरेति । वयस्य, नि-
कुञ्जसहितानां नदीनां वेतसकुसुमैर्हेतुभूतैः प्राप्तसौरभं पयः पश्य । अत्र मनो विनो-
दयेत्याशयः । पर्यन्तेषु नदीनां तटेषु । यूथिकाकुसुमानां जालकैर्मुकुलैरुज्जृम्भितं
विकसितं तदपि पश्येत्याशयः । इतश्च सानूनालम्ब्य शृङ्गाण्याधारीकृत्य मेघैर्म-
यूरोद्धतनृत्तनिमित्तं वितानायते पटमयवृत्तमण्डपंतयावार्यते । केषु देशेष्वित्यत