मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 209, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः । २०५
गिरिनिकुञ्जगुञ्जद्गम्भीरगद्गदोद्गारघोरघोषणगोदावरीमुखरितविशालमे-
खलाभुवो दक्षिणारण्यभूधरान् । अयं च मधुमतीसिन्धुसंभेदपावनो भग-
वान्भवानीपतिरपौरुषेयप्रतिष्ठः सुवर्णबिन्दुरित्याख्यायते । (प्रणम्य ।)
जयदेव भुवनभावन जय भगवन्नखिलवरद निगमनिधे ।
जय रुचिरचन्द्रशेखर जय मदनान्तक जयादिगुरो ॥ ४ ॥
(गमनमभनीय ।)
अयमभिनवमेघश्यामलोत्तुङ्गसानु-
र्मदमुखरमयूरीमुक्तसंसक्तकेकः ।
शकुनिशबलनीडानोकहस्निग्धवर्ष्मा
वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥ ५ ॥
दधति कुहरभाजामत्र भल्लूकयूना-
मनुरसितगुरूणि स्त्यानमम्बूकृतानि ।
शिशिरकटुकषायः स्त्यायते सल्लकीना-
मिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ ६ ॥
(ऊर्ध्वमवलोक्य ।) अये, कथं मध्याह्नः । तथा हि संप्रति
योऽन्धकारस्तेन गुरवो ये निकुञ्जा लतादिपिहिताः कंदरीविशेषास्तेषु गुञ्जन्ती
शब्दायमाना गद्गदध्वनिप्रधानप्रवाहनिःसरणा या गोदावरी तया मुखरितविपुल-
मेखलाभुव इत्यन्वयः । अयमिति । मधुमती नदीविशेषः । संभेदः संगमस्तस्य
पावनः पवित्रतोत्पादकः । अपौरुषेयप्रतिष्ठः पुरुषप्रयत्नाजन्यस्थापनः श्रुतिप्रति-
पाद्यमाहात्म्यो वा स्वर्णबिन्दुरिति नाम तस्य भगवतः । जयेति । भुवनभावन
चतुर्दशभुवनोत्पादक, अखिलवरद समस्तानतकामप्रद, निगमनिधे समस्तवाङ्म-
यनिधे । आदिगुरुत्वं च सर्गादौ ब्रह्मणोऽप्युपदेशकत्वात् ॥ ४ ॥ अयमिति ।
अयं पर्वतो दृश्यमानो नेत्रयोः सुखं जनयतीत्यन्वयः । तस्य विशेषणानि ।
नवजलदैः श्यामीकृतोच्चसानुः । अत एव हृष्टमयूरीमुक्ताविच्छिन्नकेकः । तथा
शकुनिभिः पक्षिभिः शबलाः कर्बुरा ये नीडानोकहास्तैः स्निग्धं वपुरस्य स
तादृक् । शकुनयश्च बलाकाः केकिनश्च ग्राह्याः । तेषामेव तदानीं नीडारम्भः ।
तैरेव श्वेतश्यामैः कर्बुरता नीडानां स्यात् ॥ ५ ॥ दधतीति । अत्र ये तरु-
णाश्च भल्लूकास्तेषामम्बूकृतानि सनिष्ठीवनानि भुक्तानि कुहरभाक्त्वेन प्रतिशब्द-
गुणोरुकृतानि कर्तॄणि स्त्यानं स्थानस्थं दधति बिभ्रति । यथा सल्लकीनां वृक्षवि-
शेषाणामिभैः पूर्वं दलिताः पश्चाद्विकीर्णा विक्षिप्ता ये ग्रन्थयस्तेषां यो निष्पन्दो
द्रवः क्षरणं तद्गन्धः स्त्यायते सर्वतः संहतो भवति । प्रसरतीत्यर्थः ॥ ६ ॥