मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 207, कुल 377 में से
संदर्भ में पढ़ेंनवमोऽङ्कः ।
(ततः प्रविशति सौदामिनी ।)
सौदामिनी—एषास्मि सौदामिनी भगवतः श्रीपर्वतादुपैत्य
पद्मावतीं तत्र मालतीविरहिणो माधवस्य संस्तुतप्रदेशदर्शनासहिष्णोः
संस्थायं परित्यज्य सह सुहृद्वर्गेण बृहद्द्रोणीशैलकान्तारप्रदेशमुपश्रु-
त्याधुना तदन्तिकं प्रयामि । भोः, तथाहमुत्पतिता यथा सकल एव
गिरिनगरग्रामसरिद्वरण्यव्यतिकरश्चक्षुषा परिषिच्यते । (पश्चाद्विलोक्य ।)
साधु साधु ।
पद्मावती विमलवारिविशालसिन्धु-
पारासरित्परिकरच्छलतो बिभर्ति ।
श्रीपर्वते कपालकुण्डलापहृतां मालतीमाच्छिद्य निष्प्रत्यूहे देशे निधाय माल-
तीविनाशशङ्किनो माधवस्यावशयंभाविनाशमाशङ्क्य जीवत्येव समागमिष्यतीति
माधवप्रतीतिहेतोः मालतीकण्ठाद्वकुलावलीमादाय सौदामिनी सत्वरमुत्पतिता ।
अस्मिन्नवसरे नवमाङ्कारम्भः । तत इति । सौदामिनी स्वात्मगतमेव स्वविधेयं
विचारयति—एषास्मीति । एषाहं सैव सौदामिनी नान्या । या भगवत्याः
कामन्दक्या योगाभ्यासाद्युपदेशेनानुगृहीतैतावत्पदं प्रापिता । तदवश्यं मया
कामन्दक्या प्राणेनापि रक्षणीययोर्मावतीमाधवयोर्विपत्तिप्रतीकारः प्राणव्ययेनापि
विधेय इत्येषास्मीति पदस्याशयः । भगवतः पूज्याच्छ्रीपर्वतादुपैत्य गत्वा पद्मा-
वतीम् । तत्र पद्मावत्यां मालतीविप्रयुक्तस्य माधवस्य बृहद्द्रोण्योपलक्षितो यः
शैलस्तस्य कान्तारं दुर्गमार्गस्तत्र प्रदेशस्तत्र प्रवेशमुपश्रुत्याधुना तदन्तिक-
मनुप्रयामि । भवतु तस्य कान्तारप्रवेशः किमेतावता स्यादित्याशयः । किंभूतस्य
माधवस्य—मालत्या सह क्रीडाद्यधिकरणत्वेन संस्तुतः परिचितो देशस्तस्येदानीं
मालतीं विना तदवलोकनासहिष्णोः कथं कान्तारप्रवेशः किंविधो वेत्यपेक्षाद्वये
सह सुहृद्वर्गेण संस्थायं गृहं परित्यज्येति पदद्वयं योज्यम् । अत्र भगवच्छब्दो-
क्तपूज्यत्वं च श्रीपर्वतस्यानेकमन्त्रसाधनक्षेत्रत्वेन । तथाहमिति । तथा तेन
वेगातिशयेन तथोच्चदेशगमनमाश्रित्य वोत्पतितेनात्मनः शरीरलघुतोत्कर्षसहितं
योगपरिपालनलिङ्गभूतं तथा शीघ्रगामितां चाश्चर्यहेतुत्वेनात्मगतमेव चिन्तयति ।
लघिमा लघुर्भवति येन सूर्यकरानवलम्ब्य तद्विम्बं प्रविशतीत्युच्चैर्गगनारोहणं च
माधवस्य गिरिद्रोण्या श्रीपर्वतस्यापि स्पष्टदर्शनार्थम् । व्यतिकरो विशेषः समूहो
वा । चक्षु रश्मिमण्डलेन परिषिच्यतेऽभिव्याप्य गृह्यते । साधु साधु । पद्मावतीं
शीघ्रं प्राप्तास्मि । भद्रमापन्नमिति साधुपदाभ्यासहेतुः । पद्मावतीति । पद्मा-
वती नगरी अन्तरिक्षं गगनमिव बिभर्ति । कस्मादित्यपेक्षायां विमलवारिभिर्वि-