मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 175, कुल 377 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः । १६९
बुद्धरक्षिता—अंह इं । सुदं एव्व अह्मेहिं ण मे संपदं इमाए
कोमारवड्ढईए पओअणं ति ससपहं पइण्णं काऊण वासभवणादो
णिग्गदो ।
मदयन्तिका—(कर्णौ पिधाय।) अंहहे अदिकमो । अहो
पमादो । सहि लवङ्गिए, असमत्थह्मि दे मुहं संपदं दट्ठुं । तह वि
पहवामि त्ति किं वि मन्तइस्सं ।
लवङ्गिका—साँहीणो दे अअं जणो ।
मदयन्तिका—चिट्ठदु दाव मह भादुणो दुःसीलदा अप्प-
दिट्ठाणं अ । तुह्मेहिं वि ईदिसो वि एसो संपदं जहचित्तं अणुव-
ट्ठणीओ जेण भत्ता एसो त्ति । तुह्मे इमस्स अणहिआअअक्खराहि-
क्खेवोवालम्भस्स जं मूलं तं ण जाणह ।
१. अथ किम् । श्रुतमेवास्माभिर्न मे सांप्रतमनया कौमारवर्धक्या प्रयो-
जनमिति सशपथं प्रतिज्ञां कृत्वा वासभवनान्निर्गतः ।
२. अहो अतिक्रमः । अहो प्रमादः । सखि लवङ्गिके, असमर्थास्मि ते
मुखं सांप्रतं द्रष्टुम् । तथापि प्रभवामीति किंचिन्मन्त्रयिष्ये ।
३. स्वाधीनस्तेऽयं जनः ।
४. तिष्ठतु तावन्मम भ्रातुर्दुःशीलताप्रतिष्ठानं च । युष्माभिरपीदृशोऽप्येष
सांप्रतं यथाचित्तमनुवर्तनीयो येन भर्तैष इति । यूयमस्या नभिजाताक्षराधि-
क्षेपोपालम्भस्य यन्मूलं तन्न जानीथ ।
बुद्धरक्षिता । अथ किम् । कृत एवेत्यर्थः । तदेवाह—श्रुतमेवास्माभिर्यथा न
मे सांप्रतमनया कौमारवर्धक्या प्रयोजनमिति सशपथं प्रतिज्ञां कृत्वा वासभवना-
न्निर्गतः ॥ मदयन्तिका । अहो अतिक्रमो मर्यादोल्लङ्घनम् । अहो प्रमादोऽनव-
धानता । सखि लवङ्गिके, असमर्थास्मि ते मुखं सांप्रतं द्रष्टुम् । तथापि प्रभवामीति
मय्यतिस्निग्धायां त्वयि प्रभुत्वमस्तीति किमपि सखित्वमेवावलम्ब्य तदनुरूपं किं-
चिन्मन्त्रयिष्ये ॥ लवङ्गिका । स्वाधीनस्तेऽयं जनः । तद्विस्रब्धं मन्त्रयस्वेति
भावः ॥ मदयन्तिका । तिष्ठतु तावन्मम भ्रातुर्दुःशीलताप्रतिष्ठानं च युष्मा-
भिर्मोल्याप्तकोटिभिरपीदृशोऽप्येष सांप्रतं यथाचित्तमनुवर्तनीयः । चित्तशब्देनात्र
तत्साधारणो व्यापारः संकल्पारूढ्यो लक्ष्यते । तेन तदिच्छाप्रतिकूलं नाचवरणीयमि-
त्याशयः । येन भर्तैष इति । निर्गुणो दोषवानपि भर्ता भर्तृत्वेन स्त्रीभिरनुवर्तनीयः ।
न तु तस्य प्रातिकूल्यं कुलवधूनामुचितमिति भावः । न च यूयमस्या भिजाताक्ष-
राधिक्षेपोपालम्भस्यानभिजातानि कितवजनयोग्यान्यक्षराणि यत्र स तादृशो-