मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 171, कुल 377 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः । १६५
लवङ्गिका—को संदेहो महाभाअस्स । किं बहुणा । जह
एसो मञ्जीरसद्दो तह जाणामि देण ववदेसेण आणीदा बुद्धरक्खि-
दाए मदअन्तिएत्ति । ता उत्तरीआववारिदो सुत्तलक्खणो चिट्ठ ।
(मकरन्दस्तथा करोति ।)
(ततः प्रविशति मदयन्तिका बुद्धरक्षिता च ।)
मदयन्तिका—सँहि, सच्चं एव्वं परिकोविदो मे भादा
मालदीए ।
बुद्धरक्षिता—अँह इं ।
मदयन्तिका—अँहो अच्छाहिदं । ता एहि, वामसीलं मालदीं
णिब्भच्छेह्म ।
(इति परिक्रामतः ।)
बुद्धरक्षिता—इँदं वासभवणं ।
१. कः संदेहो महाभागस्य । किं बहुना यथैष मञ्जीरशब्दस्तथा
जानामि तेन व्यपदेशेनानीता बुद्धरक्षितया मदयन्तिकेति । तदुत्तरीया-
पवारितः सुप्तलक्षणस्तिष्ठ ।
२. सखि, सत्यमेव परिकोपितो मम भ्राता मालत्या ।
३. अथ किम् ।
४. अहो अत्याहितम् । तदेहि, वामशीलां मालतीं निर्भर्त्सयावः ।
५. इदं वासभवनम् ।
नामेति संभावनायाम् । बुद्धरक्षितासंक्रान्ता भगवत्यैव निवेशिता भगवतीनीतिः
कृत्यं मदयन्तिकां प्रति न बुद्धरक्षिताबुद्धिदोषेण प्रतिहता फलतीति संभाव्यते । 'न
विपर्यैष्यति' इति पाठे बुद्धरक्षितया स्वप्रज्ञाबलेनाप्रमत्तेन दोषेण वैपरीत्यं न संभा-
व्यते।अपि तु भगवत्यैव प्रवर्तितत्वात्फलपर्यवसायिनी नीतिर्भविष्यतीत्यर्थः॥ लव-
ङ्गिका। कः संदेहो महाभागस्य । संभावनाया उल्बणैककोटिसंदेहरूपत्वादपिनाम
शब्दसूचिता संभावनैव संदेहशब्देनोक्ता। कथं तर्हि संदेहलेशस्याप्यवकाश इत्यर्थः।
किंबहुना। यथैष मञ्जीरशब्दः श्रूयते, तथा तेनैव नूपुरध्वनिश्रवणप्रकारेण हेतुना तर्क-
यामि तेन व्यपदेशेनालीकभ्रातृभार्यायास्तत्वानुनयव्याजेनानीता बुद्धरक्षितया मद-
यन्तिकेति । तदुत्तरीयापवारितः सुप्तलक्षणः सुप्त इव वक्ष्यमाणस्तिष्ठ ॥ मदयन्ति-
का। सखि, सत्यमेव परिकोपितः परिकुपितः कृतो मे भ्राता मालत्या ॥ बुद्धरक्षि-
ता । अथ किम् । सत्यमेवेत्यर्थः ॥ मदयन्तिका । अहो, अत्याहितं महाभीतिः।
कुपिता भ्रातुर्मालती समीपमुपनीतैवेत्यर्थः । तदेहि । वामशीलां वक्रस्वभावां मालतीं