मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 165, कुल 377 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । १५९
तदिह सुवदनायां तात मत्तः परस्मा-
त्युरुचितकरुणायाः सर्वथा मा विरंसीः ॥ १६ ॥
(इति पादयोः पतितुमिच्छति ।)
माधवः—अहो, वात्सल्यादतिक्रामति प्रसङ्गः ।
मकरन्दः—भगवती,
श्लाघ्यान्वयेति नयनोत्सवकारिणीति
निर्व्यूढसौहृदरसेति गुणोज्ज्वलेति ।
एकैकमेव हि वशीकरणं गरीयो
युष्माकमेवमियमित्यथ किं ब्रवीमि ॥ १७ ॥
कामन्दकी—वत्स माधव ।
माधवः—आज्ञापय ।
कामन्दकी—स्वीक्रियतामियम् ।
माधवः—स्वीकरोमि ।
कामन्दकी—वत्स माधव, वत्से मालति ।
माधवः—आज्ञापय ।
मालती—आंणवेदु भअवदी ।
१. आज्ञापयतु भगवती ।
स्थ्यर्थः विरंसीरिति 'व्याङ्परिभ्यो रमः' इति परस्मैपदम् । रश्मिश्च श्यनि पञ्च्यते
मनिरित्यनिज् कम्(?)। माङ्योगान्नडागमप्रतिषेधः । विनाव्यवधानादडागमप्रति-
षेधो नास्तीत्यशाब्दिकोक्तं हेयम् । 'मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः। प्रक्षा-
लुका तु कौन्तेय पिबस्व च हरस्व च॥' इत्यादौ बहुव्यवधानेऽपि प्रतिषेधदर्शनात्
॥१६॥इति पादयोः पतितुमिच्छति॥माधवः।वात्सल्यादपत्यप्रेम्णः प्रसङ्गः प्रस्ता-
वोऽतिक्रामत्यौचित्यमुल्लङ्घ्यते । यत्सकललोकवन्द्या भगवती स्वयं मत्प्रणामं कर्तुमि-
च्छति । अनुचितकर्मणि प्रवर्तत इति भावः॥ मकरन्दः—भगवतीति । श्ला-
ध्येति । श्लाघ्यान्वया महाकुलप्रसूतेति हेतोः । तथा नयनोत्सवकारिणीति निरति-
शयसौन्दर्यशालिनीति । तथा निर्व्यूढो निर्वाहं गमितः सौहृदरसः सौहार्दसारभूता
रतिर्यया सा तादृशीति । तथा गुणैरन्यैः सौशील्यादिभिरपरिगणनीयैरुज्ज्वला निर्म-
लेति।एतेष्वेकैकमेवान्यनिरपेक्षं गरीयोऽनतिक्रमणीयं वशीकरणमेतदायत्तीभावसा-
धनम् । तदुपरि युष्माकं निरुपाधिकहिताचरणप्रवृत्तानां सर्वलोकमान्यानामपीयमे-
वंविधा दृश्यते । वात्सल्यातिशयाच्छिशोर्माधवस्य प्रणामश्चिकीर्षित इत्युक्तेऽथ कि-
महं ब्रवीमि । इतः परमस्यामादरातिशायानुबन्धने किं वक्तव्यमित्यर्थः ॥ १७॥अ-
मा० १५