मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 157, कुल 377 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । १४१
मालती—सहि, पिअं खु तुम्हाणं मालदीजीविदं । ण उण
मालदी ।
लवङ्गिका—सेहि, किं ति भणिदं होइ ।
मालती—जेणैं पच्चासाणिबन्धणेहिं वअणसंविहाणेहिं जीवा-
विअ इमं महाबीभच्छारम्भं अणुभाविदम्हि । संपदं उण मे मणो-
रहो एत्तिअं एव्व । जं तस्स देवस्स परकेरअत्तणेण अबरद्धं
अत्ताणं परिच्चहअ णिव्वुदा हुविस्सं । अस्सिं पओअणे पिअसही
मे अपरिपन्थिणी होदु । ( इति पादयोः पतति ।)
मकरन्दः—सैषा परमा सीमा स्नेहस्य ।
(लवङ्गिका माधवं संज्ञयाऽऽह्वयति ।)
मकरन्दः—वयस्य, लवङ्गिकास्थाने तिष्ठ ।
१. सखि, प्रियं खलु युष्माकं मालतीजीवितम् । न पुनर्मांलती ।
२. सखि, किमिति भणितं भवति ।
३. येन प्रत्याशानिबन्धनैर्वचनसंविधानैर्जीवयित्वेमं महाबीभत्सारम्भमनु-
भावितास्मि । सांप्रतं पुनर्मे मनोरथ एतावानेव । यत्तस्य देवस्य परकी-
यत्वेनापराद्धमात्मानं परित्यज्य निर्वृता भविष्यामि । अस्मिन्प्रयोजने
प्रियसखी मेऽपरिपन्थिनी भवतु ।
प्रतिहतं तेऽमङ्गलम् । इतोऽप्यपरं न श्रोष्यामि ॥ मालती । सखि, प्रियं खलु
युष्माकं मालतीजीवितम् । न पुनर्मांलती ॥ लवङ्गिका । सखि, किमिति भणितं
भवति । मालतीजीवितं प्रियं न तु मालतीति वचनस्य व्याहतत्वादिति भावः ॥
मालती । येन प्रत्याशानिबन्धनैर्वचनसंविधानैर्जीवयित्वैतावन्तं कालमीदृशं
महाबीभत्सारम्भमनुभावितास्मि । तदनेनातिजुगुप्सितमपि मम जीवितमेव युष्माकं
प्रियं यथा तथा वा जीवति चेदलमिति न तु दुःखविवर्जिता मालती कथं सु-
खेन तिष्ठतीति युष्माकं विचार इत्यस्य स्ववाक्यस्याभिप्रायो वर्णितो भवति । महा-
बीभत्सारम्भमतिजुगुप्सितं नन्दनपाणिग्रहणयोगमित्यर्थः । सांप्रतं पुनर्मम मनो-
रथ एतावानेव । यत्तस्य देवस्य । जीवितप्रदायिनो माधवस्येति यावत् । परकीयत्वेन
पराधीनत्वेनापराद्धमात्मानं परित्यज्य निर्वृता भविष्यामीति जीवितपरित्राणाज्जी-
वितस्य स एव स्वामीति तदीयस्यास्य जीवितस्य गुरुपारतन्त्र्यादन्यायत्तीकरणो-
द्योगोऽपराधः । तस्य च तदीयजीवितपरित्याग एव प्रायश्चित्तमन्याधीनतासंपा-
दनकलङ्कापाकरणादिति भावः । अस्मिन्प्रयोजने प्रियसखी मेऽपरिपन्थिन्यप्रति-
कूला भवतु ॥ मकरन्दः । परमा सीमा परा काष्ठा । नेतःपरं स्नेहस्यातिशय
इति भावः । अथ पूर्वमेव विहितसंकेता लवङ्गिका स्तम्भान्तरितं माधवं प्रत्यवच-