मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 131, कुल 377 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the Sanskrit text from the image:
पंचमोऽङ्कः । १२५
करालायतनाच्चायमुच्चरन्करुणध्वनिः ।
विभाव्यते ननु स्थानमनिष्ठानां तदीदृशम् ॥ २१ ॥
भवतु । पश्यामि । (इति परिकामति ।)
(ततः प्रविशतो देवतार्चनाव्यग्रौ कपालकुण्डलाघोरघण्टौ कृतवध्यचिह्ना
मालती च ।)
मालती-हा ताद णिकरुण, एसो दाणिं दे णरेन्द्रचित्तारा-
हणोबअरणं जणो विपज्जइ । हा अम्ब, हिअए हदासि दुवारदेव-
दुव्विलसिदेण । हा मालदीमअजीविद्दे, मह कल्लाणसाहणेकसुहसअ-
१. हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो
विपद्यते । हा अम्ब, हृदये हतासि दुर्वारदैवदुर्विलसितेन । हा मालतीमय-
जीविते, मम कल्याणसाधनैकसुखसकलव्यापारे भगवति कामन्दकि, चिरस्य
निश्चेष्टत्वं गतिं गमनं स्खलयति । ततश्चायमत्रार्तनादसमुद्भवप्रकारः को वा
भवेत् । किमेतत् । किं मालत्येव केनचिद्दुर्लभसिद्धिसाधकेन मायाविना विविध-
जीवोपहारप्रियलप्रसिद्धायाः सकलसाधकाभिमतसिद्धिप्रदानदक्षायाः संनिहिताय-
तनवर्तिन्याः करालाख्याया महाकाल्या उपहारीकर्तुं मायाबलादानीता संनिहित-
मथा करुणं क्रन्दति, उत तन्नादसद्दशो वान्यदीयोध्वनिरिति प्रकारे वितर्कः।
यद्यन्यदीयोऽयं ध्वनिस्तर्हि ममोत्पन्नं मनोविदलनाश्रमणपाण्ड्याद्यवयवविषादगात्र-
स्तम्भादिकं किंनिमित्तकं स्यात् । न ह्यन्यदीयव्यसनानममैषा दुःसहवेदना भवि-
तुमर्हति । तेन 'प्रमाणमन्तःकरणप्रवृत्तयः' इति न्यायेन प्रियायां एवैष आर्तध्व-
निरिति मन्ये । सा हि मम बहिश्चराः प्राणा इति तद्विपत्तिसंभावनयैव ममैषा
दशेति निश्चयगर्भो माधवस्य वितर्को युज्यत एवैषः ॥ २० ॥ प्रियाया एव केन-
चित्काल्या उपहारीकृताया एष ध्वनिरिति कुत इत्यत आह-करालेति ।
करालाख्यायाः काल्याः स्थानादुच्चरन्नुद्गच्छन्करुणध्वनिरिव विभाव्यते । तत्खल्वी-
दृशानां जीवोपहारादीनामनिष्ठानां स्थानम् । तस्मात्संभावितमेवैतदित्यर्थः ॥२१॥
एवं विमृश्य कर्तव्यं निश्चिनोति-भवतु मया यथाभ्यूहितं तथैव भवतु । तथापि
पश्यामि कालीस्थानं करुणध्वनिमूलं च प्रत्यक्षीकरोमि । यदि वस्तुतः प्रियेव त-
न्मूलम्, तदा मत्प्राणव्ययेनापि यदि सा विपदो निस्तारयितुं शक्यते, तर्हि त-
त्राणत्राणेन संपूर्णसंप्राप्तजीवितफलो भवेयम् । यदि न शक्यते, तदापि तत्रैव
विसृज्य प्राणान्प्रियतमां लोकान्तरे वा समासादयेयमित्यभिप्रायः । मालती ।
हा तात निष्करुण, एष इदानीं ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । हा
अम्ब, हृदये हतासि दुर्वारदैवदुर्विलसितेन । 'मत्स्नेहमये' इति हृदयविशेषणं
क्वचित्पठ्यते । तत्र तात, त्वं निष्करुणः किंतु (अम्बा) मद्गतस्नेहेति मद्योग-
शोकज्वलनान्न जीविष्यतीत्येतदेव मे दुःखनिमित्तम्, न तु मत्प्राणवियोगः ।