मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 125, कुल 377 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । ११५
संसक्ताकुलकेलयः किलकिलाकोलाहलैः संमदा-
दुत्तालाः कटपूतनाप्रभृतयः सांराविणं कुर्वते ॥ ११ ॥
तदुच्चैराघोषयामि । भो भोः श्मशाननिकेतनाः कटपूतनाः,
अशस्त्रपूतमव्याजं पुरुषाङ्गोपकल्पितम् ।
विक्रीयते महामांसं गृह्यतां गृह्यतामिति ॥ १२ ॥
(नेपथ्ये पुनः कलकलः ।)
माधवः—कथमाघोषणानन्तरमेव सर्वतः समुच्छलदुत्तालतुमुल-
व्यक्तकलकलाकुलः प्रचलित इवाविर्भवद्भूतसंकटः श्मशानवाटः ।
आश्चर्यम् ।
कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभि-
र्दंष्ट्राकोटिविशङ्कटैरित इतो धावद्भिराकीर्यते ।
गतो वर्णोत्कर्षोऽत्र कट्यति । तमोरूपसंनिधौ हि तेजोरूपमुज्ज्वलं प्रकाशते । कीदृशं
तमः । पर्यन्ते ज्योतिषां प्रान्तप्रदेशे प्रतिरोद्धुं शीलमस्य तत्तथा । ज्योतिःसमीपप-
र्यन्तमावृत्य वर्तमानमित्यर्थः । तथा मेदुरं मांसलं घनं निबिडं स्त्यानं पिण्डीभूतम् ।
सूचीभेद्यमित्यर्थः। तथा भोगेन विस्तारेण बहुदेशव्यापित्वेन भीमं भीषणम् । किं चैते
संसक्ताविच्छिन्नाकुला केलिर्येषां ते । उत्ताला उद्भटाः । कटपूतना नाम पिशा-
चविशेषस्तत्प्रभृतयः पिशाचाः संमदात्किलकिलारूपैः कोलाहलैः सांराविणं सर्व-
तोऽपि विस्तृतरमाक्रोशं कुर्वते । संपूर्वात् 'रु शब्दे' इत्यस्माद्धातोः 'अभिविधौ भाव
इनुण्' इतीनुण्प्रत्ययः । 'तदन्तादण्' इति तद्धितोऽण्प्रत्ययः स्वार्थिकः ॥ ११ ॥
आघोषयामि । उच्चैर्विक्रयार्थं विक्रेयवस्तु निवेदयामीत्यर्थः । भो भोः संभ्रमादामन्त्र-
णे । अशस्त्रेति । शस्त्रेणास्पृष्टम् । अशस्त्रक्षतमित्यर्थः । शस्त्रस्पृष्टं हि पवित्रत्वात्पि-
शाचैः स्प्रष्टुमशक्यमिति तदभावस्तेषां तस्य सुग्रहत्वप्रतिपादनायोक्तः । अव्या-
जमकपटं वस्तुतो विक्रयार्थमेवानीतं न तु मांसविक्रयव्याजेन विश्वासमुत्पाद्य
प्रहर्तुमानीतमित्यर्थः । यद्वा व्याजः कृत्रिमो गण्डादिर्मांसदूषको रोगविशेषस्त-
द्रहितं यत्पुरुषस्याङ्गं तेनोपकल्पितम् । गण्डादिकृत्रिमदोषदूषितं हि मांसं रसही-
नत्वादनास्वाद्यं स्यात् । स्त्रीमांसापेक्षया पुरुषमांसस्य प्रशस्तत्वद्योतनाय पुरुष-
ग्रहणम् । उक्तं हि कापालिकागमे—'अशस्त्रसंछिन्नमयोषिदीयं नृमांसमार्द्रं गल-
दस्रबिन्दु यत्' । अन्ये तु—'आत्मसिद्धिं पणीकृत्य साहसाद्यदुपार्जितम् । अ-
शस्त्रपूतमव्याजं नृमांसं परिकीर्तितम् ॥' इत्याहुः । एतदेव महामांसशब्देनोच्यते ।
गृह्यतां गृह्यतामिति वीप्सा दुर्लभत्वादेतादृशस्य प्रथममागतस्यैवास्ति न पश्चादाग-
तस्येत्यादरातिशयसूचनार्था ॥ १२ ॥ सर्वतः समुच्छलन्नुत्तालो भीषणस्तुमुलः सं-
कीर्णो व्यक्तः स्फुटं विभाव्यमानश्च यः कलकलस्तेनाकुल आविर्भवद्भिस्तदैव
प्रकटीभवद्भिर्भूतैः संकटः संकीर्णः श्मशानप्रदेशः प्रचलित इव । पिशाचगतसंचर-
णक्रियायास्तद्गततया प्रतीतेः कम्पमान इव वर्तत इत्यर्थः । कर्णाभ्यर्णेति । लक्ष्यं