मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 111, कुल 377 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । १०५
(मालतीमाधवौ सकरुणानुरागमवलोकयतः ।)
माधवः—कष्टम्, एतावती हि माधवस्य मालत्या समं लोक-
यात्रा । अहो नु खलु भोः,
सुहृदिव प्रकटय्य सुखप्रदां
प्रथममेकरसामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणः
प्रविशिनष्टि विधिर्मनसो रुजम् ॥ ७ ॥
मालती—(अपवार्य १) महाणुहाव, लोअणानन्दअर, एत्तिअ
दिट्ठोसि ।
लवङ्गिका—२हेद्धि । सरीरसंसअं एव णो पिअसहीए आरो-
विदा अमच्चेण ।
मालती—३परिणदं दाणिं जीवतिण्हाए फलम् । णिव्वूढं अ
णिकरुणदाए तादस्स कावालिअत्तणं । परिणिट्ठिदो देवहदअस्स-
१. महानुभाव लोचनानन्दकर, एतावद्दृष्टोऽसि ।
२. हा धिक् । शरीरसंशयमेव नः प्रियसख्यारोपितामात्येन ।
३. परिणतमिदानीं जीविततृष्णायाः फलम् । निर्व्यूढं च निष्करुणतया
मालतीमाधवौ सकरुणं परस्परानिष्टशङ्कया सानुरागमन्योन्यभावाधिगमेना-
वलोकयतः ॥ माधवः । माधवस्य दुःखैकभाजनस्य ममेत्यर्थान्तरसंक्रमित-
वाच्यता । मालत्या समं लोकयात्रा दर्शनसंलापादिरूपोऽनुरक्तजनव्यवहार एता-
वतीयत्त्वेन परिसमाप्ता । तदेतत्कष्टमित्यर्थः । अहो आश्चर्ये । नु वितर्के । खलु
प्रसिद्धौ । भोः संबोधने । हे हृदय, आश्चर्यं खलु विधेर्दुर्विलसितमिति वितर्क-
यामीत्यर्थः । तदेव दुर्विलसितमाह—सुहृदिति । असौ विधिः प्रथमं सुहृ-
न्मित्रमिवैकरसां तदेकस्वभावां प्रकारान्तरशून्यामनुकूलतां प्रस्तुतकार्यानुगुण्यं
प्रकटीकृत्य पुनः स एवाकाण्डेऽनवसरं यद्विवर्तनं विरुद्धप्रवृत्तिः प्रातिकूल्येन
व्यवहारणं तेन दारुणो विधिः । मनोरुजं चित्तरोगं प्रविशिनष्टि । प्रयोजनं विघ-
टय्याधिमात्रमवशेषयतीत्यर्थः । विधिनिन्दया विषादो व्यज्यते ॥ ७ ॥ मालती ।
महानुभाव लोचनानन्दकर, एतावद्दृष्टोऽसि । न पुनर्दृश्यसे मम जीवनाभावा-
दित्याशयः । लोचनयोरेवानन्दकरस्त्वया कृतः । मनसस्तु महती व्यथैव संपादिते-
त्यस्य ध्वनिः । इदं च प्रत्यक्षनिष्ठुरत्वाद्बज्रं नामाङ्गम् । यथा—'प्रत्यक्षनिष्ठुरं
वज्रम्' इति । लवङ्गिका । हा धिक् । शरीरसंशयमेव नः प्रियसखी समारोपि-
तामात्येन । तदिदानीं भगवति,त्वमेव गुरुजनस्पृहां विहाय मालतीप्राणत्राणे त्वरितं