मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 109, कुल 377 में से
संदर्भ में पढ़ेंकामन्दकी—जानामि तां वार्ताम् । इदं तावत्प्रसिद्धमेव यथा
नन्दनाय मालतीं प्रार्थयमानं भूरिवसुर्नृपतिमुक्तवान् 'प्रभवति निज-
कन्यकाजनस्य महाराजः' इति ।
मकरन्दः—अस्त्येतत् ।
कामन्दकी—अद्य च राज्ञा स्वयमेव मालती दत्तेति संप्रत्येव
पुरुषेणावेदितम् । तद्वत्स, वाक्प्रतिष्ठानि देहिनां व्यवहारतन्त्राणि
वाचि पुण्यापुण्यहेतवो व्यवस्थाः सर्वथा जनानामायतन्ते । सा च
भूरिवसोर्वागनृतात्मिकैव । न खलु महाराजस्य निजकन्यका मा-
लती । कन्यकाप्रदाने च नृपतयः प्रमाणमिति नैवंविधो धर्माचारस-
मयः । तस्मादवस्थितमेवैतत् । कथं च । मामनवधानां मन्यसे पश्य ।
मित्यर्थः ॥ कामन्दकी—जानामीति । अस्त्येवैषा वार्ता । तथापि मालतीं
दत्तवतो राज्ञः परस्वप्रतिपादनेऽधिकाराभावादधिकारवता च पित्रा मनःपूर्वक-
मदत्तत्वादिदानीमपि पूर्ववदाशास्त्येवेति नैतावता भेतव्यमित्यर्थः । कथं पित्रा
निश्चितं न दत्तेत्याशङ्क्य तद्वचनपर्यालोचनयापि वरीतुं तावदस्त्येषा प्रसिद्धिरि-
त्याह—इदं तावदिति ॥ मकरन्दः । अस्त्येतत् । मयापि श्रुतमित्यर्थः ।
अद्यतनोऽपि वृत्तान्तो राज्ञा स्वयमेव मालती दत्ता न तु पित्रा तत्प्रदानाधि-
कारिणेत्येवंरूपः श्रुत एवेत्याह ॥ कामन्दकी—अद्य चेति । ननु यद्यपि
स्वयमेवाद्य राज्ञा दत्ता न भूरिवसुना तथापि पूर्वमेव प्रभवतीत्यादिवाक्येन तस्या-
प्यनुमतिः प्रतीयत इत्याशङ्क्य तद्वचनस्य चलात्मकतया वञ्चनार्थं प्रयुक्तत्वान्न
तेन व्यवहारशुद्धिरिति वक्तुं प्रथमं लोकव्यवहारस्य प्रमाणत्वं दर्शयति—तद्व-
त्सेति । देहिनां व्यवहाररूपाणि तन्त्राणि कुटुम्बकृत्यानि । 'तन्त्रं कुटुम्बकृत्ये
स्यात्' इति हलायुधः । वाचि प्रतिष्ठा स्थितिर्येषां तानि । वचनमात्रनिबन्धना-
नीत्यर्थः । पुण्यापुण्यहेतवो व्यवस्थाः 'सत्यं वदेन्नानृतं वदेत्' इत्यादयः शास्त्रीया
मर्यादा वाच्येवायतन्ते वागायता एव भवन्ति । वाङ्मूल एव सर्वोऽपि शुभाशुभहे-
तुर्व्यवहार इत्यर्थः । इयं तु भूरिवसोर्वाक्छलात्मिका न तु शुद्धेत्याह—सा चेति ।
अनृतात्मिकैवोपचारोक्तिचातुर्येणापाततः सत्यवत्प्रतिभासेऽपि विचार्यमाणे पर-
मार्थदृष्ट्या मिथ्याभूतैव । कुत इत्यत आह—न खल्विति । ईश्वरत्वात्तस्य परकीय-
कन्यकास्वपि स्वातन्त्र्यमस्तीत्यत आह—कन्यकेति । नृपतयः प्रमाणं परिच्छे-
त्तारः । स्वतन्त्रकर्तार इति यावत् । इत्येवंविधो धर्माचारो धार्मिकाणामाचारस्तस्य
समयस्तत्प्रवर्तकं शास्त्रम् । क्वचिदपि न दृष्टमिति शेषः । तस्मात्पित्रा चाप्रदानाद्रा-
ज्ञानधिकाराद्राजकर्तृकप्रदानं लोकशास्त्रविरुद्धमित्येतदवस्थितमित्याह—तस्मा-
दिति । तदस्या वार्तायाः पसशप्रायकत्वेन नैतावता नैराश्यं भावनीयमित्या-
शयः । किंच मयि जीवन्त्यामपि कथं भवद्व्यतिरिक्तगामिनी स्यादिति विश्वा-
सजननार्थं साहंकारमाह—कथं चेति । अप्रमत्तैवाहं भवत्संघटने वर्ते ।