मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 107, कुल 377 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । १०१
पुरुषः—वत्से मदयन्तिके, इत इतः ।
मदयन्तिका—(अपवार्य।) सहि बुद्धरक्खिदे, अवि पुणो
दीसइ एसो जीविदप्पदाई पुण्डरीअलोअणो ।
बुद्धरक्षिता—जइ देवं अणुऊलइस्यदि । ( इति निष्क्रान्ता )
माधवः—(अपवार्य ।)
चिरादाशातन्तुस्त्रुटतु बिसिनीसूत्रभिदुरो
महानाधिर्व्याधिर्निरवधिरिदानीं प्रसरतु ।
प्रतिष्ठामव्याजं व्रजतु मयि पारिप्लवधुरा
विधिः स्थैर्यं धत्तां भवतु कृतकृत्यश्च मदनः ॥ ३ ॥
अथवा ।
समानप्रेमाणं जनमसुलभं प्रार्थितवतो
विधौ वामारम्भे मम समुचितैषा परिणतिः ।
१. सखि बुद्धरक्षिते, अपि पुनर्द्रक्ष्यत एष जीवितप्रदायी पुण्डरीक-
लोचनः ।
२. यदि दैवमनुकूलयिष्यति ।
इति व्याचक्षते । अचिरमिति दर्शनक्रियाविशेषणम् ॥२॥ मदयन्तिका। सखि
बुद्धरक्षिते, अपि पुनर्द्रक्ष्यत एष जीवितप्रदायी पुण्डरीकलोचनः । अपि पुनरित्यु-
त्सुक्यातिशयो द्योत्यते ॥ बुद्धरक्षिता । यदि दैवमनुकूलयिष्यति । अथ माधवः
समधिगतमालतीप्रदाननिश्चयो नैराश्यसंजातमुद्वेगातिशयं विवृण्वन्नाह—चिरा-
दिति । चिरादनुवृत्तो बिसिनीसूत्रवन्मृणालतन्तुवद्भिदुरः स्वयमेव भिद्यमान आ-
शातन्तुस्तत्प्राप्त्याशैव तन्तुरिदानीं त्रुटतु छिन्नो भवतु । प्रियतमासमागमाशा
दुर्बलैवैयन्तं कालमनुवृत्ता सेदानीं छिद्येत्यर्थः । तथेदानीं महानाधिर्मानसी व्यथा
स एव व्याधिर्निरवधिनिरवसरः प्रसरतु । मालतीप्राप्तिलक्षणमवधिं प्रतीक्ष्य क-
थंचिदाधिः सोढ इदानीं तस्यावघेरभावनिश्चयान्निर्मर्यादो विजृम्भतामित्यर्थः । तथा
पारिप्लवस्य चित्तचाञ्चल्यस्यारतिरूपस्य धुरोत्कर्षो मय्यव्याजं निष्कपटम् । विश्रम्भे-
णेति यावत् । प्रतिष्ठां स्थितिं व्रजतु । मालतीप्राप्त्याशया आलम्बनभूताया अप-
गमाद्वात्याक्षिप्ततूलवदप्रतिष्ठां प्राप्नोत्वित्यर्थः । तथा विधिः स्थैर्यं धत्ताम् । मदनश्च
कृतकृत्यो भवतु । उभाभ्यामपि कर्तव्यस्य महतः प्रयोजनस्य महता प्रयत्नेन
निर्वर्तितत्वादित्यर्थः । जीवनमितःपरं क्षणमात्रमपि दुर्लभमिति भावः । एकस्मि-
न्कार्येऽनेककारणसमुच्चयात्समुच्चयालंकारः ॥ ३ ॥ अथवेति । स्वयमेव स्वा-
त्मानं समाश्वासयति—समानेति । समानप्रेमाणं तुल्यानुरागमसुलभं पराधीन-
त्वेन दुष्प्रापं जनं प्रार्थितवतो मम विधौ वामारम्भे वक्रोद्योग एषा परिणतिरिदं