मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 105, कुल 377 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ९९
(मालतीमाधवौ वैवर्ण्यं नाटयतः ।)
मदयन्तिका—(सहर्षं मालतीमाश्लिष्य ।) सैहि मालदि, तुमं खु
एक्कणअरणिवासेण पंसुकीळणादो पहुदि पिअसही भइणी अ संपदं
उण अह्माणं घरस्स मण्डनं जादासि ।
कामन्दकी—वत्से मदयन्तिके, वर्धसे भ्रातुर्माालतीलाभेन ।
मदयन्तिका—तुह्माणं आसिसाणं पसादेण । सहि लवङ्गिए,
भरिआ णो मणोरहा तुह्माणं लाहेण ।
लवङ्गिका—सैहि, अह्माणं वि एदं मन्तिदव्वम् ।
मदयन्तिका—सैहि, बुद्धरक्खिदे, एहि दाव । महोसवं संभा-
वेह्म । (इत्युत्तिष्ठतः ।)
लवङ्गिका—(जनान्तिकम् ।) भैअवदि, जह हिअअभरिउव-
१. सखि मालति, त्वं खल्वेकनगरनिवासेन पांसुक्रीडनात्प्रभृति प्रियसखी
भगिनी च सांप्रतं पुनरस्माकं गृहस्य मण्डनं जातासि ।
२. युष्माकमाशिषां प्रसादेन । सखि लवङ्गिके भरिता नो मनोरथा
युष्माकं लाभेन ।
३. सखि, अस्माकमप्येतन्मन्त्रयितव्यम् ।
४. सखि बुद्धरक्षिते, एहि तावत् । महोत्सवं संभावयावः ।
५. भगवति, यथा हृदयभरितोद्गमद्विस्रंस्यानन्दसुन्दरघूर्णितधीरपर्यन्त-
रिणी वार्ता श्रुता सेवेयमित्यर्थः । वैवर्ण्यं विवर्णभावमप्रतिसमाधेयविपत्प्राप्तिज-
निततापहेतुकं सात्त्विकभावरूपम् । यदाह—'वैवर्ण्यं वर्णभेदः स्यात्तापशङ्काभया-
दिभिः' इति ॥ मदयन्तिका । सखि मालति, स्वं खल्वेकनगरनिवासेन पांसु-
क्रीडनात्प्रभृति प्रियसखी भगिनी च सांप्रतं पुनर्भ्रातृभार्यात्वेनास्माकं गृहस्य
मण्डनं जातासि ॥ कामन्दकी । वर्धस इति सोपहासेयमुक्तिः ॥ मदयन्तिका ।
युष्माकमाशिषां प्रसादेन । केवलं भवदाशीर्वादान्मालतीलाभो न तु दंपत्योरन्यो-
न्यानुरागातिशयादित्याशयः । सखि लवङ्गिके, भरिताः संपूर्णा मनोरथाः ।
युष्माकं लाभेन सपरिजनाया एव मालत्या लाभाद्युष्माकमिति बहुलम् ॥ लव-
ङ्गिका। सखि, अस्माकमप्येतन्मन्त्रयितव्यम् । पूर्णा नो मनोरथा युष्माकं सदृश-
श्लाघ्यसंबन्धानां लाभेनैवेत्यस्माभिरपि वक्तव्यमित्यर्थः । अथ च युष्माकं सपरि-
जनाया भवत्या मकरन्दप्राप्तिरूपेण भाविना लाभेनास्माकं पूर्णा मनोरथा भवितार
इत्यस्माभिरेवैतन्मन्त्रयितव्यम्, न तु त्वया सपरिजनमालतीलाभस्य; भवत्संक-
ल्पमात्रस्य निश्चितत्वादित्यपि प्रतीतिः ॥ मदयन्तिका । सखि बुद्धरक्षिते एहि
तावत् । महोत्सवं संभावयावः ॥ लवङ्गिका । यथा हृदये भरितौ पूर्णावत
१० मालतीमा०