मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 103, कुल 377 में से
संदर्भ में पढ़ेंइमस्सिं महाणुहावे अणुराअप्पवादो । (इति मकरन्दमेव सस्पृहमवलो-
कयति ।)
कामन्दकी—(स्वगतम् ।) रमणीयोर्जितं हि मदयन्तिकामक-
रन्दयोर्दैवादद्य दर्शनम् । (प्रकाशम् ।) वत्स मकरन्द, कथं पुनरायु-
ष्मानस्मिनवसरे मदयन्तिकाजीवितपरित्राणहेतोर्भगवता दैवेन
संनिधापितः ।
मकरन्दः—अद्याहमन्तर्नगरमेव कांचिद्वार्तामुपश्रुत्य माधव-
चित्तोद्वेगमधिकमाशङ्कमानस्त्वरितमवलोकितानिवेदितकुसुमाकरोद्या-
नवृत्तवृत्तान्तः परापतन्नेव शार्दूलावस्कन्दगोचरामिमामभिजातकन्यका-
मभ्युपपन्नवानस्मि ।
(मालतीमाधवौ विमृशतः ।)
कामन्दकी—(स्वगतम् ।) वृत्तान्तेन खलु मालतीप्रदानेन भ-
वितव्यम् । (प्रकाशम् ।) वत्स माधव, दिष्ट्या वर्धितोऽसि मालत्या ।
सोऽयमवसरः प्रीतिदानस्य ।
माधवः—भगवति, इयं मालती
यद्व्यालव्रणितसुहृत्प्रमोहमुग्धं
कारुण्याद्विहितवती गतव्यथं माम् ।
दृशीषु युष्मादृश्यः पक्षपातिन्यो भवन्ति । सखि, मालत्या अपि रमणीयोऽस्मिन्महा-
नुभावेऽनुरागप्रवादः । तन्मदीयभ्रातृमनोरथसंपत्तिर्दुर्लभेति हृदयम्॥ कामन्दकी।
रमणीयं संभ्रमस्रस्तांशुकं सम्यग्विभाव्य परस्परावयवसौष्ठवग्राहित्वेन साध्वसव्या-
जादृढालिङ्गनमहोत्सवानुबन्धित्वेन च मनोहरम् । तथोर्जितं बलवद्दुस्तरविपन्निस्तर-
णोपकारमूलत्वेन दैवेन, नलस्रग्दादिप्रयत्नात्, ईदृक्संपादनस्य दुःसाधकत्वात् ।
संनिधापितः संनिहितीकृतः ॥ मकरन्दः । परापतन्नेव त्वरितमागच्छन्नेव ।
अवस्कन्दोऽभिभवः । अभिजातकन्यकामाकृतिविशेषाद्यनुमितमहाकुलप्रभवकुमा-
रीभावामभ्युपपन्नवानभ्युपगतवानस्मि ॥ मालतीमाधवौ विमृशतः । चित्तोद्वेगहेतु-
रुभयोः साधारणत्वात्सुखदुःखयोरभावपि विमृशत इत्यर्थः ॥ कामन्दकी माधव-
चित्तोद्वेगातिशयकरीं वार्तां निरूपयति—कामन्दकी । वृत्तान्तेनेति । राज्ञा-
नन्दनाय मालतीप्रदानं निष्पन्नप्रायं भवितुमर्हतीत्यर्थः । अथ निश्चित्य वार्तां शीघ्र-
मन्तःपुरमाकारयितुमत्रागमिष्यन्ति, ततः प्रागेव मालतीमनःप्रत्ययजननाथं माध-
वेन स्वमभिप्रायं स्वत एव वाचयिष्यामीत्यभिप्रायेणाह—वत्स माधव, मालत्या
वर्धितोऽसि प्रत्याहृतचैतन्योसि । सोऽयमवसरः प्रीतिदानस्य पारितोषिकस्य ।
तद्दीयतामित्यर्थः । माधवः । यदिति । इयं मालती यतो व्यालेन क्रूरसत्त्वेन