महाराणा कुम्भा (हरविलास सारदा - मेवाड़ साम्राज्य के अद्वितीय विजेता, निर्माता व विद्वान्)
Maharana Kumbha: Sovereign, Soldier, Scholar by Har Bilas Sarda
हरविलास सारदा द्वारा
पृष्ठ 279, कुल 296 में से
संदर्भ में पढ़ेंMaharana Kumbha.
येनासाद्यगुरोः कलाश्चसकला दत्ता द्विजेभ्यो भुवं
भुंक्ते कुंभनरेश्वरः कुचभरा......मिव प्रेयसीं ॥ १८० ॥
वेणीव्याजवलद्भुजंगललनालावण्यलीलालया
सौंदर्य्यामृतदीर्घिकापरिलसन्नालीकनेत्रद्वया ।
कुंभारंभकुचद्वयोपरिचलन्नामुक्तमुक्ता च या
यस्यांनंगकुतूहलकपदवीकुंभल्लदेवीप्रिया ॥ १८१ ॥
सहस्त्रवदनो यदा वदति वीतवेद्यांतरः
सहस्त्रकरपल्लवो लिखति वेदविश्रांतधीः ।
अथस्फुरति भारतीक्वचनदेशिकेसौ यदा
गणंयगुणसंततिर्भवति कुंभकर्णस्तदा ॥ १८२ ॥
यावच्चंद्रदिवाकरौ हिमगिरिर्यावच्चहेमाचलो
यावत्सागरभूषणा वसुमती यावच्च सेतुर्महान् ।
तावत्तिष्ठतु कुंभकर्णनृपतिः कीर्तिप्रशस्तिस्तथा
नानाकारितकीर्तनानि सकला साम्राज्यलक्ष्मीर्पि ॥ १८३ ॥
वर्षे पंचदशे शते व्यपगते सप्ताधिकेकार्त्तिक
स्याद्यानंगतिथौ नवीनविशिखां श्रीचित्रकूटे व्यधात् ।
उद्यत्तोरणचारुहीरनिकरस्फीतप्रभाभासुर-
प्रोदं चेत्कपिशीर्षकांकितशिरो रम्यां महीवल्लभः ॥ १८४ ॥
श्रीविक्रमात् पंचदशाधिकेस्मिन् वर्षेशते पंचदशे व्यतीते ।
चंत्रासितेनंगतिथौ व्यधायि श्रीकुंभमेरुर्वसुधाधिपेन ॥ १८५ ॥
पुण्ये पंचदशे शते व्यपगते पंचाधिके वत्सरे
माघे मासि वलक्षपक्षदशमी देवेज्यपुष्यागमे ।
कीर्त्तिस्तंभमकायन्नरपतिः श्रीचित्रकूटाचले
नानानिर्मितनिर्जरावतरणमैरोर्हसंतं श्रियं ॥ १८६ ॥
सत्प्राकारप्रकारं प्रचुरसुरगृहाडंबरं मंजुगुंज-
द्भृंगश्रेणीवरेण्ययौवनपरिसरं सर्वसंसारसारं ।
नंदव्योमेषु शीतद्युतिमिति रुचिरे वत्सरे माघमासे
पूर्णार्यांपूर्णरूपं व्यरचयदचलं दुग्गमुर्वामहेन्द्रः ॥ १८७ ॥
222