महाभारत (खंड ५) - शान्ति पर्व

महाभारत (खंड ५) - शान्ति पर्व
Mahabharata (Vol 5) - Shanti Parva
महर्षि कृष्णद्वैपायन वेदव्यास द्वारा
DevanagariSanskritpublished2,450 पृष्ठ
पृष्ठ 101, कुल 2450 में से
संदर्भ में पढ़ेंपृष्ठ 101
नन्दयैतान् महाराज मत्तानिव महाद्विपान् ।
उपपन्नेन वाक्येन सततं दुःखभागिनः ॥ ७ ॥
महाराज! उन्मत्त गजराजोंके समान आपके ये बन्धु सदा आपके लिये दुःख ही-दुःख उठाते आये हैं। अब तो इन्हें युक्तियुक्त वचनोंद्वारा आनन्दित कीजिये ॥ ७ ॥
कथं द्वैतवने राजन् पूर्वमुक्त्वा तथा वचः ।
भ्रातृनेतान् स्म सहितान् शीतवातातपार्दितान् ॥ ८ ॥
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् ।
सम्पूर्णां सर्वकामानामाहवे विजयैषिणः ॥ ९ ॥
विरथांश्च रथान् कृत्वा निहत्य च महागजान् ।
संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः ॥ १० ॥
यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ।
वनवासकृतं दुःखं भविष्यति सुखाय वः ॥ ११ ॥
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर ।
कथमद्य पुनर्वीर विनिहंसि मनांसि नः ॥ १२ ॥