महाभारत (खंड १) - आदि व सभा पर्व
Mahabharata (Vol 1) - Adi and Sabha Parva
महर्षि कृष्णद्वैपायन वेदव्यास द्वारा
पृष्ठ 479, कुल 2256 में से
संदर्भ में पढ़ेंविरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ।। २२ ।।
चित्रधर्मेति विख्यातः क्षितावासीत् स पार्थिवः ।
हरस्त्वरिहरो वीर आसीद् यो दानवोत्तमः ।। २३ ।।
सुबाहुरिति विख्यातः श्रीमानासीत् स पार्थिवः ।
अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ।। २४ ।।
बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ।
निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः ।। २५ ।।
मुञ्जकेश इति ख्यातः श्रीमानासीत् स पार्थिवः ।
निकुम्भस्त्वजितः संख्ये महामतिरजायत ।। २६ ।।
भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ।
शरभो नाम यस्तेषां दैतेयानां महासुरः ।। २७ ।।
पौरवो नाम राजर्षिः स बभूव नरोत्तमः ।
कुपटस्तु महावीर्यः श्रीमान् राजन् महासुरः ।। २८ ।।
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः ।
क्रथस्तु राजन् राजर्षिः क्षितौ जज्ञे महासुरः ।। २९ ।।
पार्वतेय इति ख्यातः काञ्चनाचलसंनिभः ।
द्वितीयः शलभस्तेषामसुराणां बभूव ह ।। ३० ।।
प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः ।
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः ।। ३१ ।।
चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः ।
अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः ।। ३२ ।।
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ।
मृतपा इति विख्यातो य आसीदसुरोत्तमः ।। ३३ ।।
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ।
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ।। ३४ ।।
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
मयूर इति विख्यातः श्रीमान् यस्तु महासुरः ।। ३५ ।।
स विश्व इति विख्यातो बभूव पृथिवीपतिः ।
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः ।। ३६ ।।
कालकीर्तिरिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ।
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ।। ३७ ।।
शुनको नाम राजर्षिः स बभूव नराधिपः ।
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ।। ३८ ।।