सामग्री पर जाएँ
सर्वकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 48, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 48

१८ किरातार्जुनीयम् [प्रथमः

च दिवा च नक्तन्दिवम् । अहोरात्रयोरित्यर्थः। ‘अचतुर-’ इत्यादिना सप्तम्यर्थवृत्त्यो-
रव्ययोर्द्वन्द्वनिपातेऽच्समासान्तः। विभज्यास्यां वेलायामिदं कर्मेति विभागं कृत्वा
नयेन नीत्या वितन्यते विस्तार्यते ॥९॥

अन्वयः- कृतारिषड्वर्गजयेन, अगम्यरूपाम्, मानवीम्, पदवीम्, प्रपित्सुना,
अस्ततन्द्रिणा, तेन, नक्तन्दिवं, विभज्य, नयेन, पौरुषम्, वितन्यते ॥९॥

सुधा- कृतारिषड्वर्गजयेन = वशीकृतकामक्रोधादिषड्वैरिणा, अगम्यरूपाम् =
दुर्विज्ञेयाम्, दुर्बोधैः साधारणजनैरिति शेषः। मानवीम्— मनुसम्बन्धिनीम् = मनुप्रोक्ताम्,
कथं राज्ञा प्रजा पालनीयेति मनुस्मृत्युदितामिति भावः। पदवीम् = प्रजापालनपद्धतिम्,
प्रपित्सुना=प्राप्तुमिच्छुना, ‘दुर्योधनस्तु यथार्थमनूपदिष्टप्रजापालनपद्धत्या प्रजाः पालयति,
अयमपि धर्मात्मा राजा । नायं युधिष्ठिरान्न्यूनः। स्वबन्धुभ्यः पाण्डवेभ्यो यद्विरोधं
विदधाति, तदिह संसारे केन न क्रियते स्वोन्नत्यै? अतो नायं कुनृपतिः। अयमेव
चेदस्माकं सर्वदा पालकः स्यात्तथाऽपि न कोऽपि क्षतिलेशः’ इति यथा प्रजासु
ख्यातिं प्राप्नोति, तथा तेनाचर्यते इत्यर्थः। अस्त तन्द्रिणा=निरलसेन, सदा दक्षेणेत्यर्थः।
तेन=दुर्योधनेन, नक्तन्दिवम्=अहोरात्रम्, विभज्य=विभागं कृत्वा, ‘अस्मिन् समये
इदं कर्म कर्तव्यमिदं न कर्तव्यम्’ एवं समयविभागं विधायेत्यर्थः। पौरुषम्=पौरुषाचरणं
नयेन=न्यायेन, न तु स्वार्थान्धधिया अपि तु नीतिशास्त्रानुसारेणेत्यर्थः। वितन्यते=
विस्तार्यते॥९॥

**समासः-**षण्णां वर्ग षड्वर्गः अरीणां षड्वर्गोऽरिषड्वर्गः। कृतः अरिषड्वर्गस्य
जयो येन सः तेन कृतारिषड्वर्गजयेन । न गम्यं रूप यस्याः साऽगम्यरूपा, ताम्
आगम्यरूपाम् । मनोरियं मानवी ताम् मानवीम्। अस्ता तन्द्रिर्यस्य येन वा सः
अस्ततन्द्रिः। तेनास्ततन्द्रिणा । पुरुषस्येदं पौरुषम् ॥९॥

**व्याकरणम्-**विभज्य=वि + भज् + क्त्वा +ल्यप् । वितन्यते = वि +
तनु + य +त + कर्मणि लट् ॥९॥

वाच्यान्तरम्- कृतारिषड्वर्गजयः अगम्यरूपां मानवीं पदवीं प्रपित्सुः अस्ततन्द्रिः
सः (दुर्योधनः) नक्तन्दिवं विभज्य नयेन पौरुषं वितनोति ॥९॥

कोषः-‘रिपौ वैरियसत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः। 'वृन्दभेदाः समैर्वर्ग
सत्सार्थी तु जन्तुभिः' इत्यमरः। 'विजयो जयः' इत्यमरः। 'अयनं वर्त्ममार्गाध्वपन्थानः