किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 41, कुल 707 में से
संदर्भ में पढ़ेंसर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ११
सामर्थ्यसिद्धैरेकत्यमलक्षणकारस्य निर्दिष्टस्य सर्वसम्पत्सिद्धि रूपकार्येण कारणसमर्थन-
रूपोऽर्थन्तरन्यासोऽलङ्कारः। तदुक्तम्—'सामान्यविशेषकार्यकारणभावाभ्यां
निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः' इति ॥५॥
अन्वयः – य अधिपं, साधु, नः शास्ति, स, किं, सखा? वा किंसखा, यः
हितात्, न, संशृणुते, स, किं, प्रभुः? वा किंप्रभुः हि, सदा अनुकूलेषु, नृपेषु
अमात्येषु, च, सर्वसम्पदः, रतिं, कुर्वते ॥५॥
**सुधा-**साधु = सम्यक् परिणामहितकरं वचनमित्यर्थः। न = नहि, शास्ति =
उपदिशति, स = असम्यगुपदेष्टाजनः, कि सखा?=किं विचारतः ? नासौ सखेत्यर्थः
वा किंसखा =कुत्सितामात्यः, तदुपदेशेन प्रभुः पतत्येव राज्यादित्यर्थः। (तथा च)
यः = कश्चित्, प्रभुः हितात् = हितोपदेशात्, येनोपदेशेन न कदापि पराभवं प्राप्नु
यात्तादृशोपदेशदातुरित्यर्थः। जनद्वाऽमात्यादेरिति शेषः। न संशृणुते = नोपदेश
शृणोति, हितवाक्यस्य प्रायः कुटत्वादुपेक्षां करोति, सः = हितवचनश्रवणविमुखः
किं प्रभुः? = न प्रभुरित्यर्थः। वा किंप्रभुः कुत्सितप्रभुः, अविवेकवान् स इत्यर्थः।
अत एव मया भवता चोक्तनीती पालनीये, अन्यथा शिष्टाचारविच्छेदापत्तिः सं गच्छेत ।
अहो तादृशनियमपालने न केवलं शिष्टाचाररक्षणं फलमपि तु महॉल्लाभो
विभवस्थैर्याभिलाषिणा भवतीत्याह— हि = यस्मात् कारणात्, सदा = सर्वदा
सततमित्यर्थः। अनुकूलेषु = अविरुद्धेषु, अन्योन्यानुरक्तेषु, नृपेषु = स्वामिषु,
अमात्येषु = मन्त्रिषु, च = अपि मन्त्रिणोऽप्रियमपि वचनं श्रुत्वा भूपो भेषजमिव
गृह्णीयात् एकदाचित्कुष्येत् । एवं स्वामिनोऽप्यप्रियमपि वाक्यं निशम्यऽमात्योपि न
क्रोधं कुर्यादिति भावः। तथा सति, सर्वसम्पदः = सकलसम्पत्तयः, रतिं =
अनुरागम् तदा स्थित्यभिलाषमित्यर्थः। कुर्वते = कुर्वन्ति । मिथोऽनुरागरज्जुकन्द्रेषु
नृपामात्येषु न कदाऽपि राज्यलक्ष्मीर्मुञ्चतीत्यर्थः॥५॥
समासः- सर्वाः सम्पदः सर्वसम्पदः॥५॥
**व्याकरणम्-**शास्ति = शास् लट् । संशृणुते = सम् + श्रु + लट् । कुर्वते =
कृ+लट् ॥५॥
**वाच्यान्तरम्-**येन अधिपो न साधु शिष्यते, तेन किंसख्य भूयते, येन
हितान्ना संश्रूयते, तेन किंप्रभुना भूयते । हि सदानुकूलेषु नृपेष्वमात्येषु सर्वसम्पद्भिः
रति क्रियते ॥५॥