खण्डनखण्डखाद्यम् (महाकवि श्रीहर्ष - अद्वैत न्याय-खण्डन एवं तत्त्व-निर्णय सटीक)
Khandanakhandakhadya of Mahakavi Sriharsha with Commentary
महाकवि श्रीहर्ष द्वारा
पृष्ठ 608, कुल 610 में से
संदर्भ में पढ़ें५८६ खण्डनखण्डखाद्य कारिकाः
संख्या कारिकाः पृष्ठ-संख्या
४७. वाच्यान्यथोपपत्तिर्वा त्याज्यो वा दृष्टताग्रहः ।
न ह्येकत्र समावेशश्छायातपवदेतयोः ॥ ४२
४८. विधिजः प्रत्ययोऽन्योऽयं व्यतिरेकासमर्थनः ।
नैवं चेदपराद्धं ते किमन्यापोहवादिना ॥ २३९
४९. व्याघातो यदि शङ्काऽस्ति न चेच्छङ्का ततस्तराम् ।
व्याघातावधिरशङ्का तर्कः शङ्कावधिः कुतः ॥ २७१
५०. शब्दार्थनिर्वचनखण्डनया नयन्तः
सर्वत्र निर्वचनभावमखर्वगर्वान् ।
धीरा यथोक्तमपि कीरवदेतदुक्त्वा
लोकेषु दिग्विजयकौतुकमातनुध्वम् ॥ २
५१. समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः ।
का तदस्तु गतिस्तत्तद्बुद्धीव्यवहारयोः ॥ २१५
५२. सर्वत्र सत्ताऽसत्ता वा नियमेऽन्यानपेक्षया ।
नियामकाद्धि भावानां क्वाचित्कत्वस्य सम्भवः ॥ २४६
५३. सुदूरधावनश्रान्ता- बाधबुद्धिपरम्परा ।
विनिवृत्ताऽद्वयाम्नायैः पाष्णिग्राहैर्विजीयते ॥ ५६
५४. सोऽपि वा धीविशेषः किं स्वीकार्यस्तद्वियं विना ।
एवञ्च सोऽपि सोऽपीति नान्तः सोपानधावने ॥ २१५
५५. हेत्वाद्यभावसार्वज्ञ्ये सर्वं पक्षतयाऽऽस्थिते ।
किञ्चित्तु त्यजता दत्ता सैव द्वारद्वयश्रुतेः ॥ ५९