सामग्री पर जाएँ
सर्वकोश
खण्डनखण्डखाद्यम् (महाकवि श्रीहर्ष - अद्वैत न्याय-खण्डन एवं तत्त्व-निर्णय सटीक)

खण्डनखण्डखाद्यम् (महाकवि श्रीहर्ष - अद्वैत न्याय-खण्डन एवं तत्त्व-निर्णय सटीक)

Khandanakhandakhadya of Mahakavi Sriharsha with Commentary

महाकवि श्रीहर्ष द्वारा

DevanagariHindipublished610 पृष्ठ

पृष्ठ 485, कुल 610 में से

संदर्भ में पढ़ें
पृष्ठ 485

परिच्छेद ] विषय-विषयिभाव-लक्षण का खण्डन ४६५
एतेन तत्सम्बन्धत्वं यदुच्यते यत्प्रतिबद्धव्यवहारानुकूलस्वभावं यद्विज्ञानं
तत्तस्य विषयः, तद्वत्त्वं विषयित्वमिति । तदपि प्रागुक्तयुक्तिं नातिवर्तते ।
{ 'अथोच्यते य एवार्थो यस्यां संविदि भासते ।
तद्वेद्यः स पृथक् नेति वेद्यावेद्यस्य लक्षणम् ॥'—इति ।
तदपि न विद्मः ; यस्यां संविदीति किं संविदधिकरणम् , अथ तद्विषयः, अथ
सम्बन्धमात्रम् ?
नाद्यः ; घटादेस्तदधिकरणत्वानुपगमेन अव्यापनात्, यथा तथा निर्वचने
ज्ञानत्वादयतिव्याप्तेश्च ।
द्वितीयश्च अद्याप्यनिरूपितः कथं निरूपकः स्यात्, वैपरीत्यापाताच्च । तृतीय-
श्चातिव्यापकः ; कारणादेरपि तत्सम्बन्धित्वात् ज्ञानान्तरेणावभासमानत्वात् ।
समर्थन—'जो ज्ञान जिस वस्तु से प्रतिबद्ध (सम्बद्ध)