सामग्री पर जाएँ
सर्वकोश
काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

Kavyaprakasha of Mammata with Hindi Commentary

आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 505, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 505

अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमर्थ्येन यत्
उपमानमाक्षिप्यते यदपि तस्यैवोपमानतया प्रसिद्धस्य उपमा-
नान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते तत् उपमेयस्योप-
मानप्रतिकूलवर्तित्वात् उभयरूपं प्रतीपम् । क्रमेणोदाहरणम्—
लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा ।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥५५३॥
एएहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जं ।
तुब्झ मुहेण किसोअरि चंदो उअमिज्जइ जणेण ॥५५४॥