सामग्री पर जाएँ
सर्वकोश
काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)

काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)

Kavyadarsha of Mahakavi Dandin with Prasadini Commentary

महाकवि दण्डी द्वारा

DevanagariHindipublished270 पृष्ठ

पृष्ठ 7, कुल 270 में से

संदर्भ में पढ़ें
पृष्ठ 7

मङ्गलम्
सरस्वती श्रीश्च शरीरसम्पदा
गुणाश्च सद्वंश इहोज्ज्वलो महान् ।
सुदुर्लभाः पुण्यततिं विना सदा
न चास्ति सा भागवतीं कृपां विना ॥ १ ॥
सद्योऽधिगन्तुं च समाश्रयेऽम्बिकां
जन्मान्तरे चेन्न ममेह ते समे ।
पराम्बिकेयं न ततोऽस्ति कोमलं
मनस्तु कस्यापि जने समाश्रिते ॥ २ ॥
पुण्यानि मे सन्ति च कान्यपीह यत्
प्रवृत्तिरस्तीह ममांशतः शुभे ।
सुविप्रवृत्तिश्च सुखानि च स्थिता
सरस्वतोपादनिषेवणे मतिः ॥ ३ ॥
विभाति चित्ते च नखच्छटा गिरः
सुदुर्लभा याऽस्ति तपस्विनामपि ।
गिरां प्रदानैश्च सदजर्नैः सदा
प्रकाश्यते ग्रन्थमिषेण चापि यत् ॥ ४ ॥
इतोऽधिका देवगिरोऽभिराधना
भवेत् सुभूयोऽपि ममान्यजन्मनि ।
श्रियस्तु तावत्य इदम्परा मम
गिरोऽभिराद्धिर्न विहन्यते यथा ॥ ५ ॥
शरीरमाद्यं खलु धर्म-साधनं
न साध्यमस्तीति तदर्थना वृथा ।
यथाऽपि साध्यं न विहन्यते तथा
भवेदितिप्रायमिहार्थ्यते मया ॥ ६ ॥
त एव काम्याश्च गुणा अपीह मा-
मवापयेयुर्हि गिरः सुपादयोः ।
त एव दोषा यदि विघ्नतामितास्
तथैव वंशोऽपि च काम्यते मया ॥ ७ ॥