कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 352, कुल 361 में से
संदर्भ में पढ़ें५६ अथर्ववेदीय-कौशिकसूत्रस्य—
कण्डिका ॥ ९० ॥
सू० १ ।—अथ मधुपर्को उच्यते । आचार्ये गृहमागते इदं कर्म करोति । सू०
९ ।—सूक्तं जपित्वा पुनराचार्य उदकमभिमंत्रयते ।
कण्डिका ॥ ९२ ॥
सू० १४ ।—आचार्यो ब्रूते तृणानि गौरस्त्विति । तृणानि ददाति गवे ।
सू० २५ ।--भूयसो भूयस्मेति मंत्रेण ॥— ॥ इति द्वादशोऽध्यायः ॥ १२ ॥
कण्डिका ॥ ९३ ॥
अद्भुतकर्मपरिभाषा उच्यन्ते । ⸱⸱⸱लोकविरुद्धं दृश्यते यत्तदद्भुतमित्युच्यते ।
अद्भुतशान्तियंत्र न क्रियते तत्र दोषो भवति । अद्भुतं यत्र भवति तत्पराभवति
विनश्यति । विनाशार्थे अद्भुतं देवाः सृजन्ति । सू० ९ ।--श्वौषस्थामनुदित्यां ⸱⸱
उषामनुदित्यां । सू० १० ।--दारुणसंवत्सरे दुर्भिक्षे मारके वा । सू० १३ ।--
देवतेषु⸱⸱⸱सू० २१। —धेनुर्धेनुं धयत्यां । सू०२२।—आकाशफेनं पिबति । सू० २६।—
अनाज्ञातमद्भुतं दृश्यते । यदद्भुतेन पठितं तदनाज्ञातमद्भुतमथवालौकिकं जुगु-
प्सितं वा अदृष्टं वा । सू० ३२ ।--यूपो । सू० ३४ ।—धूमकेतुः सप्तऋषीन् ।
सू० ३६ ।-मांसमुखो । सू० ३७ ।-अनग्नावभासे । सू० ३८ ।-श्वसति । सू०
४० ।-ग्रास्योऽग्निः । सू० ४२ ।-कुम्भोद्धाने—
कण्डिका ॥ ९४—१२० ॥
१०० क०-सू० ३ ।-शकधूममिति सूक्तेनाज्यं जुहुयात् । विषासहिमित्यनु-
वाकेन । रोहितैरुपतिष्ठते । १०३--अववर्षणे ग्रहनक्षत्राणां समापेक्षे⸱⸱⸱शान्तिः ।
१०४-सू० २ ।-या असुरा इति द्वाभ्यां ।-१०५-या असुरा ।-१०६ ।—सीता-
मध्ये लाङ्गलसंसर्गे पुच्छसंसर्गे च ।-११५।-सू० १ ।-पुरुषो वा आकाशफेनं
भक्षयति ।-११६ । सू० ३-४ ।-पिपीलिकायां शान्तिः समाप्ता । अथ पिपीलि-
काभिचार उच्यते-११८ ।-अथ मधुजालके गृहे लग्ने शान्तिरुच्यन्ते-११९। अथ
सर्वाद्भुतेषु शान्तिरुच्यते । भार्गव्याणि । गार्ग्याणि । बार्हस्पत्याद्भुतानि । महा-
ऽद्भुतानि औशनसाद्भुतानि । यद् ग्रंथे न पठ्यते तत्सर्वमनाज्ञातमित्युच्यते ।
यदपि परिशिष्टेषु पठ्यते । इतिहासपुराणज्योतिःशास्त्रे अश्ववैद्यके नरवैद्यकेषु पठि-
तेषु अद्भुतेषु सर्वाद्भुतेषु एषा शान्तिः । अथवा महाशान्तिरमृता घृतकम्बलकोटि-
होम सर्वाद्भुतेषु कौशिकअपठितेषु एषा शान्तिः । महाशान्तिर्वा विकल्पात् इति
भाष्यकारः । इति त्रयोदशोऽध्यायश्चतुर्दशश्च ॥ १३ ॥ १४ ॥