सामग्री पर जाएँ
सर्वकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 347, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 347

संक्षिप्तटीकासङ्ग्रहः । ५१
वक्षासवं । सू० २० ।—उपमितामित्यर्थसूक्तेन शालासवं । सू० २१ ।—तस्यो-
दनस्येत्यर्थसूक्तेन बृहस्पतिसवं । सू० २२ ।—अभिचारकामस्य । सू० २३ ।—
द्वाविंशतिः सवयज्ञाः संहितायां पठ्यन्ते स्वर्गौदनतन्त्रेण सर्वे कर्त्तव्याः ब्रह्मोदन-
तन्त्रेण वा स्वर्गब्रह्मोदनौ तन्त्रमिति वचनात् । ॥ इति अष्टमोऽध्यायः ॥
कण्डिका ॥ ६६ ॥
सू० १ ।—अथ क्रव्यादशमनेन सह आवसथ्याध्यानं व्याख्यास्यामः । ॰॰॰
दक्षिणतः पत्नी अधरारणिं गृह्णाति । उत्तरतो यजमान उत्तरारणिं । अरणिलक्षणे
अरणिरुक्ता । योऽश्वत्थ इति द्वाभ्यां यजमानं वाचयति । अर्चयित्वा देहाद्धूपं चन्द-
नेन समालभते । उभयोर्वाग्यतस्तावत्पूर्णाहुतिविसर्जनं । सू० १७ ।—अरणिलक्षणे
उक्तं मन्थनविधानं । सू० २०–२१ ।—उर्वश्यसीति मन्त्रेणोत्तरारणिमूलमधरार-
णिना संयोज्यं । पत्नी पश्चात्मुखी मन्थं धारयति पूर्वाभिमुखो यजमानो मन्थयति ।
सू० २२ ।—वैश्वानरमाह्वयति—
कण्डिका ॥ ७० ॥
सू० ८–९ । सत्यं बृहदिति नवभिः । शन्ति वेति दशम्या । उदायुषेति द्वाभ्यां ।
अग्ने गृहपत इति वैतानाग्निमुपतिष्ठते ।
कण्डिका ॥ ७१ ॥
सू० १ ।—क्रव्यादं विभजति । सू० ३ ।--नडोनलः । सू० ४ । अपावृत्येति
षड्भि ऋग्भिः क्रव्यादं गृहीत्वा एकाग्निं प्रदक्षिणं कृत्वा दक्षिणस्यां दिशि निष्क्रम्य
ततो गृहद्वारे भूमौ निदधाति । सू० ८ ।--अन्येभ्यस्त्वो पुरुषेभ्य इति तिस्रः ॰॰॰
हिरण्यपाणिमिति तिसृभिः ॰॰॰ यथा शमयति तथा होतव्यं । भस्मनि होमः । सू०
९–११ ।--जीर्णपिटके क्रव्यादं भस्म कृत्वा शान्त्युदकेन सुशान्तं कृत्वा भूमि-
स्थानं कृत्वा दग्धं खात्वा पिटके प्रक्षिप्य ततः “परं मृत्यो” इत्यृचा पिटकं यजमान-
शिरसि ददाति । सू० १३–१५ ।—सीसं नदीफेनं लोहमृत्तिकां एतानि त्रीणि
द्रव्याणि यजमानहस्ताञ्जलौ दत्त्वा । सू० १६ ।—अस्मिन्वयमिति द्वे । सीसे
मृदमिति द्वे । ॰॰॰ उदकसहितेन सीसेन हस्तप्रक्षालनं करोति । ॰॰॰ सू० १८ ।—
प्राङ्मुखा आगच्छन्ति । सू० १९ । लोपयति । ॰॰॰ २० । द्वितीयया कूर्द्या पदानि
लोपयति सप्त नदी वा नावः । सू० २१ ।—प्राग्दक्षिणस्यां दिशि कूर्दीं प्रक्षिपति–
कण्डिका ॥ ७२ ॥
सू० १ ।—तस्मिन् अकर्णमश्मानमुदकमध्ये निदधाति—सू० ५ ।—
सर्वे शालायां प्रविशन्ति । केचिद् गृहद्वारे महाशान्ति चतुर्गणीमुच्चैरभिनिगदन्ति ।