कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 318, कुल 361 में से
संदर्भ में पढ़ें१९ ।-अभ्रिस्तक्मानमिति सूक्तेन । ताम्रस्रुवेण मूर्ध्नि संपातानानयति । तत उत्तर-
तन्त्रम् । एकस्मिन् तन्त्रे दावाग्निप्रणयनम् । सू० २० ।—अथ कृमिभैषज्यमुच्यते ।
करीरमूलं सम्पात्याभिमन्त्र्य बध्नाति । गोबालैः करीरकाष्ठं वेष्टयित्वा सूक्तं
जपित्वा पाषाणेन चूर्णयति । ततः सूक्तेनाग्नौ प्रतपति । ततः सूक्तेनादधाति ।
सू० २४ ।--एकविंशत्युशीराणां मूलान्यभिमन्त्र्य ततः पाषाणेन क्षुदयति ततः
सूक्तं जपित्वा उशीराण्यग्निना दहति । सू० २६ ।—एकविंशत्युशीरपिञ्जूली-
सहितं सम्पात्याभिमन्त्र्य ततो व्याधितमाप्लावयति । सू० २७ ।—अथ राक्षस-
भैषज्यमुच्यते ।—वयोनिवेशनकाष्ठशृतम् । सू० २८।—अथ सर्पविषभैषज्यमुच्यते ।
सर्पविषलिङ्गयुपतापः । सू० ३० ।—श्लेष्मभैषज्यमुच्यते । उदकेन इदं क्रियते ।
अत्स्विदं कृत्वा तत्राग्निं प्रज्वाल्य । अस्थिसंसमिति सूक्तेन काष्ठशकलं संपात्य ततः
शकलेन सम्पातवतावसिञ्चति व्याधितम् ॥
कण्डिका ॥ ३० ॥
सू० १।२ ।—अथाक्षिरोगे भैषज्यमुच्यते । सर्षपकाण्डमणिं संपात्याभि-
मन्त्र्य बध्नाति सर्षपतैलेन सम्पातवन्तं करोति । आज्येन प्रधानं अङ्गानि सर्षपतैलेना-
भ्यज्य मणिं वा ततो बध्नाति । सू० ३ ।—सर्षपशाकं सर्षपतैलेनाभ्यक्तमभिमन्त्र्य
व्याधिताय प्रयच्छति । सू० ५ ।-मूलक्षीरं मुखेन प्राश्य ततोऽभिमन्त्र्य अङ्क्ते अक्षिणी
व्याधितस्य । मूलक्षीरं क्षीरपाटिकालग्नं तदुच्यते । सू० ६ ।—मूलक्षीरं भक्षयति
। सू० ७ ।—पित्तज्वरभैषज्यमुच्यते । ताम्रस्रुवेण मूर्ध्नि संपातानानयति । अस्मिन्
तन्त्रे दावाग्निप्रणयनं कुर्यात् । सू० ८ ।—अथ केशवृद्धिकरणे केशपतने भैषज्य-
मुच्यते । वृक्षभूमिजातौषधीभिरवज्वालितमुदकमभिमंत्र्यावनक्षत्रेऽवसिञ्चति ।
सू० ९ ।—मधु क्वाथयित्वा विभीतकं क्वाथयित्वाभिमन्त्र्य व्याधितमवसिञ्चति । सू०
१० ।-दारुहरिद्रा हरिद्रे च द्वाभ्यां क्वाथयित्वाभिमन्त्र्यावसिञ्चति । सू० ११ ।—अथ
उदरतुण्डभैषज्यमुच्यते । कृष्णं नियानं सञ्चरिति सूक्ताभ्यां चिरुयाचोषध्या सहित-
मुदकमभिमन्त्र्य ततो व्याधितमवसिञ्चति । सू० १२ ।—कृष्णं नियानं सञ्चुषो-
रितिसूक्ताभ्यां मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् । मारुतं क्षीरौदनं
मारुतशृतम् । सू० १३ ।......अथ हृदयदग्धे जलोदरे कामले च भैषज्यान्युच्यन्ते ।
नद्युदकमनुलोममाहार्यं तत्र वलीकतृणानि प्रक्षिप्य व्याधितमवसिञ्चति । सू०
१४ ।—अथ गण्डमालाभैषज्यमुच्यते । पञ्च च या इति सूक्तेन गोपाशूलिकां
पञ्चाशत्पंचाशत्यधिकाअग्नौ प्रज्वाल्य अधस्तादयः समिध आदधाति ।
कण्डिका ॥ ३१ ॥
सू० ४ ।—पुरोडाशं ... पयो जुहोति । व्रीहीन् । आवपति शान्तवृक्षसमिध