कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 312, कुल 361 में से
संदर्भ में पढ़ेंयति । मूत्रप्रवाहं विदारयति । सू० १७ । — विद्मा शरस्येति द्वितीयेन दुग्धीं ज्याधनुषं
जघने शिश्नदेशे ऊर्ध्वंकृत्वा गोदोहन्त्यामुदकं कृत्वा यवानेकविंशतिं प्रविश्य प्रक्षिप्य तेन
उदकेन धनुषमुपरि फलं सिञ्चति सूक्तं जपित्वा ॥ यथा उदकं शिश्ने पतति तथा
कार्यम् । सू० १८ । —यवगोधूमवल्ली पद्ममूलं यातिका एतानि क्वाथयित्वाभिमन्त्र्य
व्याधितं पाययति । समाप्तानि मूत्रप्रतिबन्धे दुःखमूत्रकरणे दुःखपुरीषकरणे···उदर-
पूर्णनिरोधकरणे च एतानि भैषज्यानि कार्याण्यारोग्यकामः । सू० २० । —अथ सर्व-
रोगभैषज्यान्युच्यन्ते । अभ्यातानान्तं कृत्वा अम्ब यो यन्तीति वायोः पूत इति सूक्ते-
नाज्यं जुहोति । पलाशोदुम्बराद्याः समिध आदधाति । सर्वव्याधिभैषज्यकामः ।
सू० २१ । —अथ सोमभक्षणे भैषज्य