कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 298, कुल 361 में से
संदर्भ में पढ़ें२ अथर्ववेदीय-कौशिकसूत्रस्य-
कण्डिका ॥ ३ ॥
सू० १। —युनज्मि त्वेत्येभिः पञ्चभिरिध्ममुपसमादधाति । द्वितीया कण्डिका।
—सू० २। जागृमायनमुदपात्रं कांस्यपात्रमुपसाद्य । —सू० ४। जीवास्थेति
सूक्तेन त्रिराचामति । सत्यं बृहदिति नवभिः शान्तिवेत्यृचा उदायुषेति द्वाभ्यामुत्तिष्ठति ।
(कौ० २४।३१)
कण्डिका ॥ ४ ॥
सू० ९। —उदेनमुत्तरं नयति त्रिभिर्ऋग्भिः प्रजापते न त्वदिति (७।८०।३)
चतस्रश्चर्वाहुतीर्जुहोति (कौ० ५।९) । त्वामग्न इत्यृचा (९।५९।१) चतस्र आज्या-
हुतीर्जुहोति ।
कण्डिका ॥ ५ ॥
सू० १३। —स्वाहेष्टेभ्य इत्येवमादिभिरेकादशभिः सर्वप्रायश्चित्तीयाञ्जुहोति
“यन्मे स्कन्नं पुनर्मैत्विन्द्रियमिति च द्वाभ्यामृग्भ्याम्”।
कण्डिका ॥ ६ ॥
सू० १०।—केशवः पठति० निसितः। सू० १६। —अगन्म स्वरिति पर्याय-
द्वयेन। सू० १७। —पत्न्याञ्जलौ। सू० २२। —तस्मान्नादक्षिणं हविःशब्देनाज्यतन्त्रं
पाकतन्त्रं चोच्यते । कर्ममात्रमभिमन्त्रणाद्यदक्षिणं न कुर्यात् । पाकतन्त्रे पूर्णपात्रं
माणकं सेतिका प्रस्थद्रोणाढकादि । पूर्णपात्रं यजमानशक्त्यपेक्षं “शक्त्या वा दक्षिणां
दद्यान्नातिशक्तिर्विधीयते” इत्युक्तं नवमे । आज्यतन्त्रे धेनुः । सू० २६ । तथा च
ब्राह्मणम् । सू० ३० । आज्यतन्त्रे पाकतन्त्रे दर्शपूर्णमासधर्मा भवन्ति पूर्वतन्त्रं च
उत्तरतन्त्रं च सर्वेषु पाकतन्त्रेषु सर्वमाथर्वणं कर्म पाकयज्ञशब्देनोच्यते। सू० ३४।—
अत्रापि गोपथब्राह्मणपठितौ श्लोकौ भवतः । सू० ३४ ।—केशवोऽपि पठति—
देवतेति । सू० ३७। —त्वमग्ने व्रतपा असि तृचं सूक्तं कामस्तदग्र इति पञ्चर्चं सूक्तं
एते चारणवैद्यानां पठ्यन्ते तस्मिन्नेव तन्त्रे आज्यं जुहोति शान्तसमिधो वा आदधाति
सूक्तयोर्विकल्पः । दर्शपूर्णमासव्यतिक्रमे प्रायश्चित्तम् । सर्वत्र कर्मव्यतिक्रमे सर्व-
प्रायश्चित्तीयान्होमाञ्जुहोति । तस्मिन्नेव तन्त्रे अन्यस्मिन्तन्त्रे वा तन्त्रमध्ये सर्वे होमा
इति भद्रमतम् । अथ सर्वार्थाः परिभाषा विधिकर्मार्था अविधिकर्मार्था उच्छ्रय-
कर्मार्था उच्यन्ते । मेधाजननादिपिण्डपितृयज्ञान्तं यावद्विधिकर्माणि । मधुपर्कादि
इन्द्रमहान्तं यावदविधिकर्माणि । पाकयज्ञविधिकर्मंसूक्तेन विनियोगं कृत्वा
पश्चादृचां विनियोगस्तान्युच्छ्रयकर्माणि । त्रिविधानि कर्माणि । उपदधातीत्यनादेशे
आज्यं समित् पुरोडाशः पयः दध्योदनः पायसः व्रीहिः यवः तिलः धानाः करम्भः