सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 36, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 36

[पृष्ठ ५४]

XI, 5, १८-7, २६ कौषीतकिब्राह्मण

रसो वा उदर्कः ।१८। पशवश्छन्दांसि ।१९। रसमेव तच्छन्दांस्यभ्युपनि वर्तन्ते ।२०। उपनिवर्तमिव वै पशवः ।२१ ।॥५॥


  • <sup>1</sup> IO. स्थितं
  • <sup>2</sup> L. (var.), P. छन्दःप्रवहा
  • <sup>3</sup> L. (var.) °प्रवयन्ति
  • <sup>4</sup> L. (var.), P. तस्याशि°
  • <sup>5</sup> L. (var.) अतियन्तेव, अतियन्त्येव

सौयवसे रमन्ते ।१। सैकोना विराड् द्विरनूक्त्या ।२। संप्रति<sup>1</sup> विराट्र त्रिरनूक्त्या ।३। एका विराजमत्येति<sup>2</sup> ।४। त्रयो वै यज्ञे कामाः ।५। यः संपन्ने यो न्यूने योऽतिरिक्ते ।६। यद् वै यज्ञस्य संपन्नं तत् स्वर्ग्यम् ।७। यन्न्यूनं तदन्नाद्यम् ।८। यदतिरिक्तं तत् प्रजात्यै ।९। तदत्रैव यजमानः सर्वान् कामानाप्नोति ।१०। अभूदुषा रुशत्पशुरित्याशीर्वत्या परिदधाति ।११। पशुभ्य एव तदाशिषं वदते ।१२। तथा ह यजमानात् पशवोऽनुत्क्रामुका भवन्ति ।१३। तस्यां वाचमुत्सृजते<sup>3</sup> ।१४। तदेनमजनीति देवेभ्यो निवेदयति ।१५। अत्र हि जायते ।१६। अया वाजं देवहितं सनेमेति द्विपदामभ्यस्यति ।१७। पशवो वा एतानि चतुरुत्तराणि छन्दांसि ।१८। यजमानश्छन्दसं द्विपदा ।१९। अधिष्ठायामेव तत् पशूनां यजमानं दधाति ।२०। अधीव वै पशून् पुरुषस्तिष्ठति ।२१ ।॥६॥


  • <sup>1</sup> L. P. संपदि
  • <sup>2</sup> L. P. Here ends Khaṇḍa 5
  • <sup>3</sup> L. P. °मुत्सृजति

त्रिःसप्तानि ऋतूनां छन्दांस्यन्वाह ।१। तद्वेकविंशतिः ।२। एकविंशो वै चतुष्टोमः स्तोमानां परमः ।३। तत् परमं स्तोममाप्नोति ।४। यद्वेवैकविंशतिः<sup>1</sup> ।५। द्वादश<sup>2</sup> मासाः पञ्चर्तवस्त्रय इमे लोकाः ।६। असावादित्य एकविंशः ।७। तेनैव तत्सलोकतायां यजमानमच्यूहति<sup>3</sup> ।८। तदाहुर्यदिमा हविर्यज्ञस्य वा पशोर्वा सामिधेन्योऽथ काः सौम्यस्याध्वरस्येति ।९। प्रातरनुवाक इति ब्रूयात् ।१०। अक्षरं वा इतरासां संवत्सरमुपैप्सति ।११। ऋग्भिरिह<sup>4</sup> ।१२। शतमात्रमनुब्रूयात् ।१३। शतायुर्वै पुरुषः ।१४। आयुरेवास्मिंस्तद् दधाति ।१५। विंशतिशतमनुब्रूयात् ।१६। विंशतिशतं वा ऋतोरहानि ।१७। तद्वृतुमाप्नोति ।१८। ऋतूना संवत्सरम् ।१९। ये च संवत्सरे कामाः ।२०। त्रीणि षष्टिशतान्यनुब्रूयात् ।२१। त्रीणि वै षष्टिशतानि संवत्सरस्याह्नाम् ।२२। <sup>5</sup>तत् संवत्सरस्याहान्याप्नोति<sup>5</sup> ।२३। सप्तविंशतिशतान्यनुब्रूयात् ।२४। सप्त<sup>6</sup> वै विंशतिशतानि संवत्सरस्याहोरात्राणाम् ।२५। तत् संवत्सरस्याहोरात्रानाप्नोति<sup>7</sup> ।२६ ।॥७॥


  • <sup>1</sup> L. यदेक°
  • <sup>2</sup> L. P. add वै
  • <sup>3</sup> L. P. Here ends Khaṇḍa 6
  • <sup>4</sup> L. ऋग्भिर्हं ; P. ऋग्भिर्हिं
  • <sup>5-5</sup> L. P. संवत्सरस्यैवाह्न्या
  • <sup>6</sup> L. adds च
  • <sup>7</sup> L. P. °होरात्राण्या°

[पृष्ठ ५५]

55 प्रातरनुवाकः XI, 8, १-9, १३

सहस्रमनुब्रूयात् ।१। सर्वं वै तद् यत् सहस्रम् ।२। सर्वं प्रातरनुवाकः ।३। तत् सर्वेण सर्वमाप्नोति य एवं वेद ।४। तदु ह स्माह कौषीतकिः ।५। प्रजापतिर्वै प्रातरनुवाकः ।६। अपरिमित उ वै प्रजापतिः ।७। कस्तं मातुमर्हतीति ।८। एषा हेव स्थितिः ।९। तदाहुर्यत् सदस्युक्थानि शस्यन्तेऽथ कस्माद्धविर्धानयोः प्रातरनुवाकमन्वाहेति ।१०। शिरो<sup>1</sup> वै यज्ञस्य<sup>2</sup> यद्धविर्धाने ।११। <sup>3</sup>वाक् प्रातरनुवाकः ।१२। वाचेव तच्छिरः समर्धयति<sup>3</sup> ।१३। उदरं वै सदः ।१४। अन्नमुक्थानि ।१५। उदरसाचेयमु वा अन्नाद्यम् ।१६। तद् यथा ह वा अन्नं<sup>4</sup> एवं<sup>5</sup> यज्ञः प्रतिमया ।१७। यथा धान्यमेवं प्रातरनुवाकः ।१८। यथा पात्राण्येवमुक्थानि ।१९। स योऽल्पकमन्वाह ।२०। यथाल्यधान्ये पात्राणि समृच्छेरन् ।२१। एवं तस्योक्थानि समृच्छन्ते ।२२। उक्थानामनु समरमीश्वरो यजमानं श्रेषोन्वेतोः ।२३। <sup>6</sup>तदु वा आहुर्बहुमेवानुब्रूयात्<sup>6</sup> ।२४। उक्थानि तत् परिवृंहति ।२५। या यज्ञस्य समृद्ध्याशीः सा मे समृध्यतामिति ।२६। या वै यज्ञस्य समृद्ध्याशीः सा यजमानस्य ।२७ ।॥८॥


  • <sup>1</sup> L. P. Here ends Khaṇḍa 7
  • <sup>2-2</sup> L. P. वा एतद्यज्ञस्य
  • <sup>3-3</sup> L. P. प्राणाश्छन्दांसि शीर्षंस्तत्त्राणं दधाति सदस्युक्थानि शस्यन्त
  • <sup>4</sup> P. अन्न
  • <sup>5</sup> P. एनं
  • <sup>6-6</sup> L. P. तस्माद् बह्वेव एवानुब्रूयात्

अथो त्रीणि वा एतानि साह्नाण्यभियज्ञम् ।१। प्रातरनुवाक आश्विनं महाव्रतमिति<sup>1</sup> ।२। एतदुक्थं<sup>2</sup> महारात्र<sup>3</sup> उपाकुर्यात् पुरा वाचो विसर्गात् ।३। यत्रैतत् पशवो मनुष्या वयांसीति वाचं व्यालभन्ते पुरा ततः ।४। वाचं ह वा एतद् भूतान्याप्याययन्ति यद् वाचंयमानि शेरते ।५। आपीनां वाचमव्यासिक्र्तां प्रथमत ऋध्नवानीति<sup>4</sup> ।६। न प्रातरनुवाकं चोपांश्वन्तर्यामौ चान्तरेण वाचं विसृजेत ।७। प्राणापानौ वा उपांश्वन्तर्यामौ ।८। वाक् प्रातरनुवाकः ।९। नेत् प्राणापानौ च वाचं चान्येनान्तर्दधानीति ।१०। तद्वैके कश्छन्दसां<sup>5</sup> योगमावेद धीर इति जपिल्वाथापो रेवतीः <sup>6</sup>क्षयथा हि वस्व<sup>6</sup> इति प्रतिपद्यन्ते ।११। नापो रेवत्ये पुरस्तात् किंचन परिहरेदिति ।१२। तविह स्थितमनावस्काय तविह स्थितमनावस्काय<sup>7</sup> ।१३ ।॥९॥


  • <sup>1</sup> L. P. omit
  • <sup>2</sup> L. P. महदुक्थं
  • <sup>3</sup> L. (var.), P. महाराजम्
  • <sup>4</sup> L. P. ऋध्नवामेति
  • <sup>5</sup> L. P. छन्दसां
  • <sup>6-6</sup> L. P. omit
  • <sup>7</sup> L. P. Here ends Khaṇḍa 8

इति द्वितीयदशके प्रथमोऽध्यायः