कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
DevanagariSanskritpublished119 पृष्ठ
पृष्ठ 15, कुल 119 में से
संदर्भ में पढ़ेंपृष्ठ 15
पृष्ठम् १२
III, 7, १–8, २४ कौषीतकिब्राह्मणे 12
बार्हतरथन्तरं वषट्कुर्यात् पुरस्ताद् दीर्घमुपरिष्टाद्ध्रस्वम् ।१। यद्ध्रस्वं तद् रथन्तरम्
।२। यद् दीर्घं तद् बृहत् ।३। अथो इयं वै रथन्तरमसौ बृहत् ।४। अनयोरेव तत् प्रति-
तिष्ठति ।५। अथो एतावान् वै वाचो विकारः ।६। सर्वेणैव तद् वाचो विकारेण देवेभ्यो
हविः प्रयच्छति ।७। भूर्भुव इति पुरस्ताद् येयजामहस्य जपति ।८। वषट्कृत्यानुजपत्योजः¹
सहः सह ओजः स्वरिति² ।९। वज्रो वै वषट्कारः ।१०। तमेवैतच्छमयति पुरस्ताच्चो-
परिष्टाच्च ।११। अथो एते एव वषट्कारस्य प्रीयतमे तनू यदोजश्च सहश्च ।१२।
ताभ्यामेवैनं शमयति³ ।१३। अथ यदग्निं प्रथमं देवतानां यजति ।१४। अग्निर्वे देवानां
[L