कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
पृष्ठ 13, कुल 119 में से
संदर्भ में पढ़ेंयहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:
[पृष्ठ ८]
II, 8, ९-९, १७ कौषीतकिब्राह्मणेऽग्निहोत्रम् 8
न्वेव वयममुंल्लोकं² परेत्य पितुभ्यः ।९। अथो एवैनं³ न⁴ श्रद्धात्तारः ।१०। यद्वैवैतदुभये-
दुरग्निहोत्रमूहूयत ।११। अन्येद्युर्वा तदेतर्हि हूयते ।१२। राज्यामेवेत्येतदेव कुमारी गन्धर्व-
गृहीतोवाच ।१३। राज्यामेवोभे आहुती जुहुतीति ।१४। राज्यां हीति⁵ सा होवाच ।१५।
संधौ जुहुयात् ।१६। समुद्रो ह वा एष सर्वहरो यदहोरात्रे ।१७। तस्य हैते गाधे तीर्थे यत्
संध्ये⁶ ।१८। तद् यथा गाधाभ्यां तीर्थाभ्यां समुद्रमतीयात् तादृक् तत् ।१९। यत् संधौ
जुहोति ।२०। अथो देवसेना ह वा एषाध्वगा हनिष्यन्ती⁷ यदहोरात्रे ।२१। तस्या हँते
पक्षसी यत् संध्ये⁶ ।२२। तद् यथा पक्षाभ्यां क्षिप्रमध्वानमन्विंयात् तादृक् तत् ।२३।
यत् संधौ जुहोति ।२४। अथो मृत्योर्ह वा एतौ विराजबाहू⁸ यदहोरात्रे ।२५। तद्
यथा विराजबाहुभ्यां⁹ परिरिप्रेहिष्यन्नन्तरेणातिमुच्येत तादृक् तत् ।२६। यत् संधौ
जुहोति ।२७ ॥४॥
¹ L. (var.) वाधावत: ² L. P. यममुं लोकं ³ L. P. एनं ⁴ L. (var.) नो, न:; P. न:
⁵ L. (var.) हैति ⁶ L. (var.) संधे ⁷ L. (var.) हनिष्यन्ति, हनिष्यति ⁸ L. P. वाजबाहू
⁹ L. P. व्राजबाहुभ्यां
तदु ह स्माह कौषीतकिः ।१। सायमस्तमिते पुरा तमसोऽस्तस्मिन् काले जुहुयात् ।२। स
देवयानः केतुः ।३। तमेवारभ्य स्वस्ति स्वर्गं¹लोकमैति² ।४। प्रातः पुरोदयादपहते तमसि
तस्मिन् काले जुहुयात् ।५। स देवयानः केतुः ।६। तमेवारभ्य स्वस्ति स्वर्गं¹लोकमैति¹
।७। अथ² योऽतोऽन्यथाग्निहोत्रं जुहोति ।८। श्यामशबलौ हास्याग्निहोत्रं विखिदतः³
।९। अहर्वै शबलः ।१०। रात्रिः श्यामः ।११। स यो महारात्रे जुहोति ।१२। श्यामो
हास्याग्निहोत्रं विखिदति⁴ ।१३। अथ यो महाह्ने जुहोति ।१४। शबलो हास्याग्निहोत्रं
विखिदति⁴ ।१५। तद् वै खलु यदैव कदाचन जुहुयात् ।१६। हुतसमृद्धिमेवोपासीतेति
हुतसमृद्धिमेवोपासीतेति ।१७ ॥५॥
¹ L. P. समश्रुते (for एति) ² L. अथो ³ L. (var.) विषिदतः, विषीदतः; P. विषीदतः
⁴ L. (var.) विषिदति, विषीदति; P. विषीदति
इति प्रथमदशके द्वितीयोऽध्यायः
[पृष्ठ ९]
9 कौषीतकिब्राह्मणे दर्शपूर्णमासौ III, 1, १-३, ५
यद् दर्शपूर्णमासयोरुपवसति ।१। न ह वा अव्रतस्य देवा हविर्भक्षन्ति ।२। तस्मादुप-
वसति ।३। उत मे देवा हविरश्नीयुरिति ।४। पूर्वां पौर्णमासीमुपवसेदिति पैङ्ग्यम् ।५।
उत्तरामिति कौषीतकम् ।६। यां पर्यस्तमयमत्संपर्देति सा स्थितिः ।७। पूर्वां¹ पौर्णमासी-
मुपवसेदनिर्ज्ञाय पुरस्तादमावास्यायां चन्द्रमसम् ।८। यदुपवसति तेन पूर्वां प्रीणाति ।९।
यद् यजते तेनोत्तराम् ।१०। उत्तरामुपवसेत् ।११। उत्तरामु ह वै समुद्रो विजते सोम-
मनु दैवतम् ।१२। एतद् वै देवसत्यं यच्चन्द्रमाः ।१३। तस्मादुत्तरामुपवसेत् ।१४ ॥१॥
¹ L. P. उत्तरां
अथ यत् पुरस्तात् सामिधेनीनां जपति ।१। स्वस्त्ययनमेव तत् कुरुते ।२। हिंकृत्य
सामिधेनीरन्वाह ।३। वज्रो वै हिंकारः ।४। वज्रेणैव तद् यजमानस्य पाप्मानं हन्ति ।५।
त्रिहिंकरोति ।६। त्रिवृद् वै वज्रः ।७। वज्रमेव तदभिसंपादयति ।८। एतेन वै देवास्त्रिवृता
वज्रेणैभ्यो लोकेभ्योऽसुरान्नुदन्त ।९। तथो एवैतद् यजमान एतेनैव त्रिवृता वज्रेणैभ्यो
लोकेभ्यो द्विषतो भ्रातृव्यान् नुदते ।१०। एकादश सामिधेनीरन्वाह ।११। एकादशाक्षरा वै
त्रिष्टुप् ।१२। त्रैष्टुभ इन्द्रः ।१३। तदुभा इन्द्राग्नी आप्नोति ।१४। त्रिः प्रथमया त्रिरुत्तमया
पञ्चदश संपद्यन्ते ।१५। पञ्चदश वै पूर्वपक्षापरपक्षयोरहानि ।१६। तत् सामिधेनीभिः
पूर्वपक्षापरपक्षावाप्नोति ।१७। अथो वज्रो वै सामिधेन्यः ।१८। पञ्चदशो वै वज्रः
।१९। वज्रेणैव तद् यजमानस्य पाप्मानं हन्ति ।२०। यद्वेव त्रिः प्रथमां त्रिरुत्तमाम्
।२१। यज्ञस्यैव तद् बर्सी¹ नह्यति स्थेम्नेऽविस्त्रंसाय ।२२। तासां वै त्रीणि षष्टिशतान्य-
क्षराणां भवन्ति ।२३। त्रीणि वै षष्टिशतानि संवत्सरस्याह्नाम् ।२४। तत् सामिधेनीभिः
संवत्सरस्याहान्याप्नोति ।२५। ता वै गायत्र्यो भवन्ति ।२६। गायत्रो वा अग्निर्मा-
यत्रच्छन्दाः ।२७। स्वेनैव तच्छन्दसाग्निं स्तौति ।२८। अभिरूपा भवन्ति ।२९। यद् यज्ञे
ऽभिरूपं तत् समृद्धं यज्ञस्यैव समृद्धयै ।३०। उत्तमायै तृतीये वचने प्रणवेन निगदमुप-
संदधाति ।३१ ॥२॥
¹ L. (var.) बहिरसौ, बहिंसौ, बर्हसौ, बर्हिरसौ; P. बर्हिरसौ
अग्ने महाँ असि ब्राह्मण भारतेति ।१। अग्निर्वै भरतः ।२। स वै देवेभ्यो हव्यं भरति
।३। अथ यद् यजमानस्यार्षेयमाह ।४। न ह वा अनार्षेयस्य देवा हविरश्नन्ति ।५।