कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 110, कुल 114 में से
संदर्भ में पढ़ें[पृष्ठम् १०४]
कात्यायनश्रौतसूत्रम् ।
प्रोषितेऽन्यत्र व्यापृते वा यजमाने ये तावत्क्रत्वर्था आज्यावेक्षणादयः तेषु यथा-
समाख्यमध्वर्य्वादय एव कर्तारो विद्यन्त इति न प्रतिनिधिना कार्यम् । पुरुष-
संस्काराणां च ऋत्विग्वरणादीनां क्रत्वर्थत्वात् विनापि यजमानेन नास्ति वैगु-
ण्यम् । पत्न्याऽपि तदनुष्ठानसम्भवात् । यानि च ब्रह्मचर्यादीनि फलं प्रति योग्य-
तायाः कारणानि तानि बहिरवस्थितेनापि यजमानेन क्रियमाणानि क्रतोरुप-
कारकान्येव । तस्माद्वेदबन्धनाज्यावेक्षणादावध्वर्य्वादेर्विद्यमानत्वादितरत्र ब्रह्म-
चर्यादावसम्भवात्प्रतिनिधेरनुत्पन्नो यजमानप्रतिनिधिः । कुतः ? फलयोगात् ।
न हि पुरुषान्तरेण क्रियमाणानि ब्रह्मचर्यादीनि यजमानस्य फलयोग्यतां
सम्पादयन्तीत्यसम्भवः प्रतिनिधेः । तस्मान्न प्रवासादिनापचरिते स्वामिनि त-
त्स्थाने स्वाम्यन्तरं प्रतिनिधेयमिति । ननु पत्न्यां मृतायां किमस्ति प्रतिनिधिरुत
नेति नायमस्याधिकरणस्य विषयः, तदा हि यदा तावत् भार्यायै पूर्वमारिण्यै
दत्वाग्नीनन्त्यकर्मणीत्ययं ( मनु० ५, १६८, ) पक्षः समाश्रीयते तदाग्न्य-
[L1