सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 994, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 994

इत्याख्याय कथां मन्त्री गोमुखः पुनरेव सः।
नरवाहनदत्ताय कथामेतामवर्णयत् ॥४४॥
कोऽप्यासीद्बोधिसत्त्वांशो वने क्वापि कृतोटजः।
कारुणैकाग्रहृदयो महासत्त्वस्तपश्चरन् ॥४५॥
स तत्र जन्तूनापन्नान् पिशाचांश्च समुद्धरन्।
अपरांश्च जलेऽग्नौ स्वभावादतर्पयत् ॥४६॥
एकदान्योपकारार्थं भ्रमन् सोऽटावीभुवि।
महान्तं कूपमद्राक्षीत्तदन्तश्च ददौ दृशम् ॥४७॥
तावच्च स्त्री तदन्तस्था स दृष्ट्वैवोच्चैरभाषत।
भो महारम्भह नारी सिंहः स्वर्णशिखः खगः ॥४८॥
भुजङ्गश्चेति चत्वारः कूपेऽत्र रजनी वयम्।
पतितास्तदतः क्लेशादुद्धरास्मान् कृपो कुरु ॥४९॥
एतच्छ्रुत्वा जगादैतां स्त्रियं यूयं त्रयो यदि।
तमसान्धा निपतिताः खगोऽत्र पतितः कथम् ॥५०॥
तमवैषोऽपि पतितो व्याधजालेन सङ्गतः।
इति सापि महासत्त्वं तं नारी प्रत्यभाषत ॥५१॥
ततस्तान् स तपःशक्त्या यावदुद्धर्तुमिच्छति।
तावत्तच्छक्त्या नोद्धर्तुं सिद्धिस्तस्य त्वहीयत ॥५२॥
पापेयं स्त्री ध्रुवं सिद्धिरितत्सम्भाषणाद्धि मे।
नष्टा यतस्त्वत्र तावद्युक्तिं यां करोम्यहम् ॥५३॥
इति सञ्चिन्त्य रज्ज्वा तांस्तृणावेष्टितयाखिलान्।
उज्जहार महासत्त्वः स कूपात् कुर्वतः स्तुतिम् ॥५४॥
सविस्मयश्च पप्रच्छ सिंहपक्षिमृजङ्गमान्।
व्यक्ता वाग् वः कथं कीदृग्वृत्तान्ताद्वोच्यतामिति ॥५५॥
तत मिथोऽब्रवीद् व्यक्तवाचो जातिस्मरा वयम्।
अन्योन्यबाधकाश्चास्मद् वृत्तान्तं च क्रमाच्छृणु ॥५६॥
सिंहस्य कथा
इत्युक्त्वा स स्ववृत्तान्तं सिंहो वक्तुं प्रचक्रमे।
अस्ति बभ्रुमृगेन्द्रस्य तुषाराद्रौ पुरोत्तमम् ॥५७॥
पद्मगभिधानोऽस्ति तत्र विद्याधरेश्वरः।
पद्मगभिधानश्च पुत्रस्तस्याप्यदत्त ॥५८॥