सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 990, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 990

२१६ कथासरित्सागर
ततो मूलफलाहारो भार्यायुक्तोऽत्र कानने।
स तस्थौ बोधिसत्त्वांशो वणिक्पुत्रस्तपश्चरन् ॥१४॥
एकदा फलमूलार्थं गत तस्मिन् स्मरातुरा।
तद्भार्या तेन रुण्डेन रमे स्वव्रणन सा ॥१५॥
तत्सक्ता तेन सम्मन्त्र्य भर्तुस्तस्य वधैषिणी।
युक्त्या चकार सान्यद्युर्मान्द्यं दुष्टचारिणी मृषा ॥१६॥
स्वप्ने दुरवतारेऽद्य स्थिता दुस्तरनिम्नगे।
दर्शयित्वौषधिं पापा पतिं सा त्वमभाषत ॥१७॥
जीवाम्यहं त्वयैषा चेन्मयानीता महौषधिः।
जाने ह्येतामिहस्थां मे स्वप्ने वक्ति स्म देवता ॥१८॥
तच्छ्रुत्वा स तथैवेथ द्वबध्रे तत्रौषधं कृते।
तुषवेष्टितया रज्ज्वावातरत्स्तब्धया ॥१९॥
अवतीर्णस्य रज्जुं तां चिक्षेपोन्मुच्य तस्य सा।
ततः स पतितो नद्या तया जह्रे महौघया ॥२०॥
दूराद्वीची नीत्वा च तया सुकृतलक्षितः।
नद्या कस्यापि नगरस्यासन्ने सोऽर्पितस्तटे ॥२१॥
तत स स्थलमारुह्य चिन्तयन् स्त्रीविचेष्टितम्।
जलावगाहनक्लान्तो विशश्राम तरोस्तले ॥२२॥
तस्मिन् काले च नगरे राजा तत्र मृतोऽभवत्।
मृते राजनि चानादिदेशे छत्रेष्वसौ स्थितिः ॥२३॥
यन्मङ्गलगजःपौरैर्भ्राम्यमाणः करेण यम्।
आरोपयति पृष्ठे स्वे सोऽत्र राज्येऽभिषिच्यते ॥२४॥
स धैर्यतुष्टो धातेव भ्रमन् प्राप्तोऽन्तिकं गजः।
उत्क्षिप्यारोपयामास स्वपृष्ठे तं वणिक्सुतम् ॥२५॥
ततः स नगरं नीत्वा रम्ये प्रकृतिभिः क्षणात्।
वणिक्सुतोऽभिषिक्तोऽभूद् बोधिसत्त्वांशसम्भवः ॥२६॥
स राज्यं प्राप्य करुणामुदिताक्षान्तिभिः सह।
अरस्त न तु पापाभिः स्त्रीभिश्चपलवृत्तिभिः ॥२७॥
तद्भार्या सापि निःशङ्का मत्वा तं च नदीहृतम्।
वभ्रामतस्ततो जारं रुण्डं पृष्ठेऽधिरोप्य तम् ॥२८॥