कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 970, कुल 1079 में से
संदर्भ में पढ़ें११८ कथासरित्सागर
रन्त्वा च तेन साकं सा दत्त्वा चार्थं तमब्रवीत्।
दास्याम्ययमभूतं ते पुनरेष्यसि यदिति॥४६॥
ततो निर्गत्य वृत्तान्तमाख्यायार्थं समर्प्य च।
व्यसृजत्प्राप्य राजार्थं घटं गेहं स कर्परः॥४७॥
स्वयं तत्रैव तु पुनर्विवेशान्तःपुरं स तत्।
आकृष्टः कामलोभाभ्यामपायं को हि पश्यति॥४८॥
तत्रैव सुरतश्रान्तः पानमत्तस्तया सह।
राजपुत्र्या समं सुप्तो न बुबोध गतां निशाम्॥४९॥
प्रातः प्रविष्टैर्लब्ध्वा स बद्धवान्तःपुररक्षिभिः।
राज्ञे निवेदितः सोऽपि क्रुधा तस्यादिशद्वधम्॥५०॥
यावत् स नीयते वध्यभुवं तावत् सखास्य सः।
रात्रावनागतस्यागादन्वेष्टुं पदवीं घटः॥५१॥
तमागतं स दृष्ट्वाथ घटं कर्परकः पुनः।
हृत्वा राजसुतां रक्षेत्याह स्म स्वसञ्ज्ञया॥५२॥
घटनाङ्गीकृतेऽच्छोऽथ सममेव स कर्परः।
नीत्वोत्तम्भ्य तरौ क्षिप्रं वधकेरवणो हृतः॥५३॥
ततो गत्वा घटो गेहमुक्षोचन्निशागमे।
भित्त्वा सुरुङ्गां प्राविक्षत् स तद्राजसुतागृहम्॥५४॥
तामेकां सङ्गमितां दृष्ट्वोपेत्य जगाद सः।
त्वत्कृतञ्च हतस्याहं कर्परस्य सखा घटः॥५५॥
अपनेतुमितस्त्वां च तत्स्नेहादहमागतः।
तदेहि यावन्नानिष्टं किञ्चित्त कुरुते पिता॥५६॥
इत्युक्ते तेन सा हृष्टा राजपुत्री तथेति तत्।
प्रतिपेदे स चैतस्य बन्धनानि न्यवारयत्॥५७॥
ततस्तया समं सद्यः समर्पितशरीरया।
निर्गत्य च ययौ चौरः स्वनिकेतं सुरुङ्गया॥५८॥
प्रातश्च स्नातदुर्लक्ष्यसुरुङ्गेन निजां सुताम्।
केनाप्यपहृतां बुद्ध्वा स राजा समचिन्तयत्॥५९॥
ध्रुवं तस्यास्ति पापस्य निगृहीतस्य बान्धवः।
कश्चित् साहसिको येन हृतेव सा सुता मम॥६०॥